SearchBrowseAboutContactDonate
Page Preview
Page 141
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 113 // विशुद्धसंयमादिसाध्या च सिद्धिरिति सा छद्मस्थस्यापि स्यादिति / अंतकरे ति भवान्तकारिणः, तेच दीर्घतरकाला-पेक्षयापि भवन्तीत्यत आह, अंतिमसरीरिया वत्ति, अन्तिमं शरीरं येषामस्ति तेऽन्तिमशरीरिकाः, चरमदेहा इत्यर्थः, वाशब्दौ समुच्चये। सव्वदुक्खाणमंतं करेंस्वि त्यादौ सिज्झिंसु सिझंती त्याद्यपि द्रष्टव्यम्, सिद्ध्याद्यविनाभूतत्वात् सर्वदुःखान्तकरणस्येति, उप्पन्ननाणदसणधरे ति, उत्पन्ने ज्ञानदर्शने धारयन्ति ये ते तथा, न त्वनादिसंसिद्धज्ञानाः, अत एव, अरह त्ति पूजार्हाः, जिण त्ति रागादिजेतारः, ते च छद्मस्था अपि भवन्तीत्यत आह केवली ति सर्वज्ञाः, सिझंती त्यादिषु चतुर्षु पदेषु वर्तमाननिर्देशस्य शेषोपलक्षणत्वात् सिझिंसु सिझंति सिज्झिस्संती त्येवमतीतादिनिर्देशो द्रष्टव्यः, अत एव सव्वदुक्खाण मित्यादौ पञ्चमपदेऽसौ 8 विहित इति / जहा छउमत्थो, इत्यादेरियं भावना, आहोहिएणं भंते! मणूसेऽतीतमणतं सासय मित्यादि दण्डकत्रयम्, तत्राधः, परमावधेरधस्ताद्योऽवधिः सोऽधोऽवधिस्तेन यो व्यवहरत्यसावाधोऽवधिकः परिमितक्षेत्रविषयावधिकः, परमाहोहिओ त्ति सिद्धि प्राप्ति परम आधोऽवधिकाद्यः स परमाधोऽवधिकः, प्राकृतत्वाच्च व्यत्ययनिर्देशः, परमोहिओत्ति क्वचित्पाठो व्यक्तश्च, सच समस्तरूपिद्रव्यासङ्गयातलोकमात्रालोकखण्डासङ्ख्यातावसर्पिणीविषयावधिज्ञानः, तिन्नि आलावग त्ति कालत्रयभेदतः, केवली. ण मित्यादि केवलिनोऽप्येत एव त्रयो दण्डकाः विशेषस्तु सूत्रोक्त एवेति / से णूण मित्यादिषु कालत्रयनिर्देशो वाच्य एवेति, अलमत्थुत्ति वत्तव्वं सिय त्ति, अलमस्तु पर्याप्तं भवतु नातः परं किञ्चिज्ज्ञानान्तरं प्राप्तव्यमस्यास्तीत्येद्वक्तव्यं स्याद्भवेत्, सत्यत्वादस्येति // 42 // प्रथमशते चतुर्थोद्देशकः समाप्तः॥१-४॥ १शतके उद्देशक:४ सूत्रम् 41 परमाणस्कन्धयोः जीवस्यच शाश्वतता प्रश्नाः / सूत्रम् 42 जीवस्य प्रकार प्रश्नाः / // 1
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy