________________ श्रीभगवत्यडू श्रीअभय वृचियुतम् भाग-१ // 110 // १शतके उद्देशक:४ सूत्रम् 40 प्रदेशानुभागकर्मवेदनावेदन प्रश्नाः / सर्वमेव वा पापं दुष्टम्, मोक्षव्याघातहेतुत्वात्, तस्स त्ति तस्मात्कर्मणः सकाशादवेइयत्त त्ति तत्कर्माननुभूय, एवं खलु त्ति वक्ष्यमाणप्रकारेण खलु वाक्यालङ्कारे मए त्ति मया, अनेन च वस्तुप्रतिपादने सर्वज्ञत्वेनात्मनः स्वातन्त्र्यं प्रतिपादयति, पएसकम्मे यत्ति प्रदेशाः कर्मपुद्गला जीवप्रदेशेष्वोतप्रोतास्तद्रूपं कर्म प्रदेशकर्म, अणुभागकम्मे य त्ति, अनुभागः तेषामेव / कर्मप्रदेशानां संवेद्यमानताविषयो रसस्तद्रूपं कर्मानुभागकर्म, तत्र यत्प्रदेशकर्म तन्नियमाद्वेदयति, विपाकस्याननुभवनेऽपि कर्मप्रदेशानामवश्यं क्षपणात्, प्रदेशेभ्यः प्रदेशानियमाच्छातयतीत्यर्थः, अनुभागकर्म च तथाभावं वेदयति वा न वा, यथा मिथ्यात्वं तत्क्षयोपशम कालेऽनुभागकर्मतया न वेदयति प्रदेशकर्मतया तुवेदयत्येवेति / इह च द्विविधेऽपि कर्मणि वेदयितव्ये प्रकारद्वयमस्ति, तच्चाहतैव ज्ञायत इति दर्शयन्नाह ज्ञातं सामान्येनावगतमेतद्वक्ष्यमाणं वेदनाप्रकारद्वयम्, अर्हता जिनेन, सुयं ति स्मृतं प्रतिपादितमनुचिन्तितं वा, तत्र स्मृतमिव स्मृतं केवलित्वेन स्मरणाभावेऽपि जिनस्यात्यन्तमव्यभिचारसाधर्म्यादिति, विण्णायं ति विविधप्रकारैः देशकालादिविभागरूपैतिं विज्ञातम्, तदेवाह, इमं कम्मं अयं जीवे त्ति, अनेन द्वयोरपि प्रत्यक्षतामाह केवलित्वादर्हतः, अज्झोवगमियाए त्ति प्राकृतत्वादभ्युपगमः प्रव्रज्याप्रतिपत्तितो ब्रह्मचर्यभूमिशयनकेशलुचनादीनामङ्गीकारस्तेन निर्वृत्ताऽऽभ्युपगमिकी तया, वेयइस्सइ त्ति भविष्यत्कालनिर्देशः भविष्यत्पदार्थो विशिष्टज्ञानवतामेव ज्ञेयोऽतीतो वर्तमानश्च पुनरनुभवद्वारेणान्यस्यापिज्ञेयःसंभवतीति ज्ञापनार्थः, उवक्कमियाए त्ति, उपक्रम्यतेऽनेनेत्युपक्रमः कर्मवेदनोपायस्तत्र। भवा, औपक्रमिकी, स्वयमुदीर्णस्योदीरणाकरणेन वोदयमुपनीतस्य कर्मणोऽनुभवस्तया, औपक्रमिक्या वेदनया वेदयिष्यति, तथा च, अहाकम्मं त्ति यथाकर्म बद्धकर्मानतिक्रमेण, अहानिगरणं ति निकरणानां नियतानां देशकालादीनां करणानां विपरिणामहेतूनामनतिक्रमेण यथा यथा तत्कर्म भगवता दृष्टं तथा तथा विपरिणस्यतीति, इतिशब्दो वाक्यार्थसमाप्ताविति // 110