________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 109 // १शतके उद्देशकः 4 सूत्रम् 40 प्रदेशानुभागकर्मवेदनावेदन प्रश्नाः / भावात्, मोहोपशमस्य चेहाधिकृतत्वादिति / अथापक्रामतीति यदुक्तं तत्र सामान्येन प्रश्नयन्नाह से भंते! कि मित्यादि, से त्ति, असौ जीवः, अथार्थो वा से शब्दः, आयाए त्ति, आत्मनाऽणायाए त्ति, अनात्मना, परत इत्यर्थः, अपक्रामत्यपसर्पति, पूर्व पण्डितत्वरुचिर्भूत्वा पश्चान्मिश्ररुचिर्मिथ्यारुचिर्वा भवतीति, कोऽसौ? इत्याह, मोहनीयं कर्म मिथ्यात्वमोहनीयं चारित्रमोहनीयं वा वेदयन्, उदीर्णमोह इत्यर्थः / से कहमेयं भंते! ति, अथ कथं केन प्रकारेण, एतद्, अपक्रमणमेवं ति मोहनीयं वेदयमानस्येति, इहोत्तरं गोयमे त्यादि, पूर्वमपक्रमणात् प्राग, असावपक्रमणकारी जीव एतज्जीवाद्यहिंसादि वा वस्त्वेवं यथा जिनैरुक्तं रोचते श्रद्धत्ते करोति वा, इदानीं मोहनीयोदयकाले सजीव एतज्जीवादि, अहिंसादि वैवं यथा जिनैरुक्तं नो रोचते न श्रद्धत्ते न करोति वा; एवं खलूक्त प्रकारेणैतदपक्रमणम्, एवं मोहनीयवेदन इत्यर्थः॥३९॥ मोहनीयकर्माधिकारात् सामान्यकर्म चिन्तयन्नाह सेनूणंभंते! नेरइयस्स वा तिरिक्खजोणियस्सवामणूसस्स वा देवस्स वाजे कडे पावे कम्मे नत्थिणं तस्स अवेइयत्ता मोक्खो?, हंता गोयमा! नेरइयस्स वा तिरिक्ख० मणु० देवस्स वा जे कडे पावे कम्मे नत्थि णं तस्स अवेइयत्ता मोक्खो।से केणद्वेणं भंते! एवं वुच्चति-नेरइयस्स वा जाव मोक्खो, एवं खलु मए गोयमा! दुविहे कम्मे पण्णत्ते, तंजहा- पएसकम्मे य अणुभागकम्मे य, तत्थणं जंतं पएसकम्मं तं नियमा वेएइ, तत्थ णं जंतं अणुभागकम्मं तं अत्थेगइयं वेएइ अत्थेगइयं नो वेएइ / णायमेयं अरहया सुयमेयं अरहया विनायमेयं अरहया इमं कम्मं अयं जीवे अज्झोवगमियाए वेयणाए वेदिस्सइ इमं कम्मं अयं जीवे उवक्कमियाए वेदणाए वेदिस्सइ, अहाकम्मं अहानिकरणं जहा जहा तं भगवया दिटुंतहा तहातं विप्परिणमिस्सतीति, से तेणटेणंगोयमा! नेरइयस्स वा 4 जाव मोक्खो।सूत्रम् 40 // नेरइया(य?)स्स वे त्यादौ नास्ति मोक्ष इत्येवं संबन्धात्षष्ठी, जे कडे त्ति तैरेव यदूद्धम्, पावे कम्मे त्ति पापमशुभं नरकगत्यादि, // 109 //