________________ श्रीभगवत्यङ्ग श्रीअभय. वृत्तियुतम् भाग-१ // 108 // बालवीरियत्ताए त्ति बालः सम्यगर्थानवबोधात् सद्बोधकार्यविरत्यभावाच्च मिथ्यादृष्टिस्तस्य या वीर्यता परिणतिविशेषः सा १शतके तथा तया। पंडियवीरियत्ताए त्ति पण्डितः सकलावद्यवर्जकस्तदन्यस्य परमार्थतो निर्ज्ञानत्त्वेनापण्डितत्वाद्, यदाह तज्ज्ञानमेव उद्देशक:४ सूत्रम् 39 न भवति यस्मिन्नुदिते विभाति रागगणः। तमसः कुतोऽस्ति शक्तिर्दिनकरकिरणाग्रतः स्थातुम्? // 1 // इति, सर्वविरत इत्यर्थः। मोहनीयोबालपंडियवीरियत्ताए त्ति बालो देशे विरत्यभावात् पण्डितो देश एव विरतिसद्भावादिति बालपण्डितो देशविरतः, इह मिथ्यात्व दयादुप स्थानादि उदिते मिथ्यादृष्टित्वाज्जीवस्य बालवीर्येणैवोपस्थानं स्यान्नेतराभ्याम्, एतदेवाह गोयमे त्यादि। उपस्थानविपक्षोऽपक्रमणम-8 बालतस्तदाश्रित्याह जीवे णमित्यादि, अवक्कमेजत्ति, अपक्रामेदपसत्, उत्तमगुणस्थानकाद्धीनतरं गच्छेदित्यर्थः, बालवीरियत्ताए वीर्यतादि प्रश्नाः / अवक्कमेज्जत्ति मिथ्यात्वमोहोदये सम्यक्त्वात् संयमाद्देशसंयमाद्वाऽपक्रामेन्मिथ्यादृष्टिर्भवेदिति / णो पंडियवीरियत्ताए अवक्कमेज त्ति, न हि पण्डितत्वात्प्रधानतरं गुणस्थानकमस्ति यतः पण्डितवीर्येणापसप्त्, सिय बालपंडियवीरियत्ताए अवक्कमेज्जत्तिस्यात् कदाचिच्चारित्रमोहनीयोदयेन संयमादपगत्य बालपण्डितवीर्येण देशविरतो भवेदिति / वाचनान्तरे त्वेवं बालवीरियत्ताए नो पंडियवीरियत्ताए नो बालपंडियवीरियत्ताएत्ति, तत्र च मिथ्यात्वमोहोदये बालवीर्यस्यैव भावादितरवीर्यद्वयनिषेध इति / उदीर्णविपक्षत्वादुपशान्तस्येत्युपशान्तसूत्रद्वयं तथैव, नवरमुवट्ठाएज्जा पंडियवीरियत्ताए त्ति, उदीर्णाऽऽलापकापेक्षयोपशान्तालापकयोरयं विशेषः, प्रथमालापके सर्वथा मोहनीयेनोपशान्तेन सतोपतिष्ठेत क्रियासु पण्डितवीर्येण, उपशान्तमोहावस्थायां पण्डितवीर्यस्यैव भावादितरयोश्चाभावात् / वृद्धस्तु काञ्चिद्वाचनामाश्रित्येदं व्याख्यातम्, मोहनीयेनोपशान्तेन सता न मिथ्यादृष्टिर्जायते, साधुः श्रावको वा भवतीति / द्वितीयालापकेतु, अवक्कमेज्ज बालपंडियवीरियत्ताए त्ति, मोहनीयेनापशान्तेन संयतत्वाद्वालपण्डितवीर्येणापक्रामन् देशसंयतो भवति, देशतस्तस्य मोहोपशमसद्भावात्, न तु मिथ्यादृष्टिः, मोहोदय एव तस्य // 1