________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 105 // 1 // ति / तथा भङ्गाः, व्यादिसंयोगभङ्गकाः, तत्र च द्रव्यतो नामैका हिंसा न भावत इत्यादि चतुर्भङ्गयुक्ता, न च तत्र प्रथमोऽपि भङ्गो युज्यते, यतः किल द्रव्यतो हिंसा- ईर्यासमित्या गच्छतः पिपीलिकादिव्यापादनम्, न चेयं हिंसा, तल्लक्षणायोगात्, तथाहि जो उ पमत्तो पुरिसो तस्स उ जोगं पडुच्च जे सत्ता / वावज्जंती नियमा तेसिं सो हिंसओ होइ॥१॥त्ति , उक्ता चेयमतःशङ्का, न चेयंयुक्ता, एतद्गाथोक्त हिंसालक्षणस्य द्रव्यभावहिंसाश्रयत्वात्, द्रव्यहिंसायास्तुमरणमात्रतयारूढत्वादिति। तथा नया द्रव्यास्तिकादयः, तत्र यदि नाम द्रव्यास्तिकमतेन नित्यं वस्तु पर्यायास्तिकनयमतेन कथं तदेवानित्यं? विरुद्धत्वात्, इति शङ्का, इयंचायुक्ता, द्रव्यापेक्षयैव तस्य नित्यत्वात्, पर्यायापेक्षया चानित्यत्वात्, दृश्यते चापेक्षयैकत्रैकदा विरुद्धानामपि धर्माणांसमावेशो यथा जनकापेक्षया य एव पुत्रः स एव पुत्रापेक्षया पितेति / तथा नियमोऽभिग्रहः, तत्र यदि नाम सर्वविरतिः सामायिकं तदा किमन्येन पौरुष्यादिनियमेन? सामायिकेनैव सर्वगुणावाप्तेः, उक्तश्चासाविति शङ्का, इयं चायुक्ता, यतः सत्यपि सामायिके युक्तः पौरुष्यादिनियमः, अप्रमादवृद्धिहेतुत्वादिति, आह च सामाइए वि हु सावज्जचागरूवे उगुणकर एयं / अपमायवुड्विजणगत्तणेण आणाओ विन्नेयं // 1 // ति। तथा प्रमाणं प्रत्यक्षादि, तत्रागमप्रमाणम्, आदित्यो भूमेरुपरि योजनशतैरष्टाभिः संचरति चक्षुःप्रत्यक्षं च तस्य भुवो निर्गच्छतो ग्राहकमिति किमत्र सत्यमिति सन्देहः, अत्र समाधिः, न हि सम्यक् प्रत्यक्षमिदम्, दूरतरदेशतो विभ्रमादिति // 37 // प्रथमशते तृतीयोद्देशकः॥१-३॥ १शतके उद्देशक:३ सूत्रम् 37 ज्ञानदर्शनचारित्रलिंगप्रवचनाऽऽगमकल्पमार्गमतभंगनय नियम प्रमाणान्तरैः त्रयोदशभिः काकामोहनीय कर्मवेदन प्रश्नाः / // 105 // - जिनास्ततो नान्यथावादिनः / / 1 // 0 यस्तु प्रमत्तः पुरुषस्तस्यैव योगं प्रतीत्य ये सत्त्वा व्यापाद्यन्ते स नियमात्तेषां हिंसको भवति // 1 // 0 सर्वसावद्यत्यागरूपे सामायिके सत्यप्येतत्पौरुष्यादि गुणकरमप्रमादवृद्धिजनकत्वादाज्ञातो विज्ञेयम् / / 1 //