________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 104 // प्रवचनाऽऽगमकल्प पुरुषः, तत्रैकः प्रावचनिक एवं कुरुतेऽन्यस्त्वेवमिति किमत्र तत्त्वमिति, समाधिश्चेह, चारित्रमोहनीयक्षयोपशमविशेषेण 1 शतके उत्सर्गापवादादिभावितत्वेन च प्रावचनिकानां विचित्रा प्रवृत्तिरिति नासौ सर्वथापि प्रमाणम्, आगमाविरुद्धप्रवृत्तेरेवल उद्देशकः३ सूत्रम् 37 प्रमाणत्वादिति / तथा कल्पो जिनकल्पिकादिसमाचारः, तत्र यदि नाम जिनकल्पिकानां नाग्न्यादिरूपो महाकष्टः कल्पः ज्ञानदर्शनकर्मक्षयाय तदा स्थविरकल्पिकानां वस्त्रपात्रादिपरिभोगरूपो यथाशक्तिकरणात्मकोऽकष्टस्वभावः कथं कर्मक्षयायेति, चारित्रलिंगइह च समाधिः, द्वावपि कर्मक्षयहेतू, अवस्थाभेदेन जिनोक्तत्वात्, कष्टाकष्टयोश्च विशिष्टकर्मक्षयं प्रत्यकारणत्वादिति / मार्गमततथा मार्गः, पूर्वपुरुषक्रमागता सामाचारी, तत्र केषाञ्चितिश्चैत्यवन्दनानेकविधकायोत्सर्गकरणादिकाऽऽवश्यकसामाचारी भंगनय तदन्येषांतुन तथेति किमत्र तत्त्वमिति, समाधिश्च-गीतार्थाशठप्रवर्त्तिताऽसौसर्वाऽपिन विरुद्धा, आचरितलक्षणोपेतत्वात्, नियमआचरितलक्षणं चेदं असढेण समाइन्नं जं कत्थइ केणई असावजं / न निवारियमन्नेहिं बहुमणुमयमेयमायरियं॥१॥ति / तथा मतं प्रमाणान्तरैः त्रयोदशभिः समान एवाऽऽगमे आचार्याणामभिप्रायः, तत्र च सिद्धसेनदिवाकरो मन्यते, केवलिनो युगपज्ज्ञानं दर्शनंच, अन्यथा तदावरण मोहनीय क्षयस्य निरर्थकता स्यात्, जिनभद्रगणिक्षमाश्रमणस्तु भिन्नसमये ज्ञानदर्शने, जीवस्वरूपत्वात्, तथा तदावरणक्षयोपशमे कर्मवेदन समानेऽपि क्रमेणैव मतिश्रुतोपयोगी, न चैकतरोपयोग इतरक्षयोपशमाभावः, तत्क्षयोपशमस्योत्कृष्टतः षट्षष्टिसागरोपम- प्रश्नाः / प्रमाणत्वादतः किं तत्त्वमिति, इह च समाधिः, यदेव मतमागमानुपाति तदेव सत्यमिति मन्तव्यमितरत्पुनरुपेक्षणीयम्, अथ चाबहुश्रुतेन नैतदवसातुं शक्यते तदैवं भावनीयम्, आचार्याणां संप्रदायादिदोषादयं मतभेदः, जिनानां तु मतमेकमेवाविरुद्धं च, रागादिविरहितत्वात्, आह च अणुवकयपराणुग्गहपरायणा जं जिणा जुगप्पवरा। जियरागदोसमोहा य णण्णहावाइणो तेणं / ©अशठेन समाचीर्णे यदसावा केनापि कुत्रचित् ।अन्यैर्न निवारितं बह्वनुमतमेतदाचरितम् // 1 // यतोऽनुपकृतपरानुग्रहपरायणा युगप्रवरा / जितरागद्वेषमोहाच / काङ्का