________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 99 // 1 शतके उद्देशक:३ सूत्रम् 35 काडामोहनीयस्याऽऽत्मनैवोदीरणा तद्गतान्यच्च प्रश्नाः / मात्र एव हेतुत्वादिति // अथोदीरणामेवाश्रित्याह जं तं भंते! इत्यादि व्यक्तम्, नवरम्, अथोदीरयतीत्यादिपदत्रयोद्देशेऽपि कस्मात्तं किं उदिन्नं उदीरेईत्यादिनाऽऽद्यपदस्यैव निर्देशः कृतः?, उच्यते, उदीरणादिके कर्मविशेषणचतुष्टय उदीरणामेवाश्रित्य विशेषस्य सद्भावादितरयोस्तु तदभावाद्, एवं तर्जुद्देशसूत्रे गर्हिते संवृणोतीत्येतत् पदद्वयं कस्मादुपात्तम्? उत्तरत्रानिर्देक्ष्यमाणत्वात्तस्येति, उच्यते, कर्मण उदीरणायां गर्हासंवरणे प्राय उपायावित्यभिधानार्थम्, एवमुत्तरत्रापि वाच्यमिति / प्रश्नार्थ-0 श्वेहोत्तरव्याख्यानाद्बोद्धव्यः, तत्र नो उदिन्नं उदीरेइ त्ति 1 उदीर्णत्वादेव, उदीर्णस्याप्युदीरण उदीरणाविरामप्रसङ्गात् ।नो अणुदिन्नं उदीरेइ त्ति 2 इहानुदीर्ण चिरेण भविष्यदुदीरणमभविष्यदुदीरणं च तन्नोदीरयति तद्विषयोदीरणायाः सम्प्रत्यनागतकाले चाभावात् / अणुदिन्नं उदीरणाभवियं कम्मं उदीरेइ त्ति 3 अनुदीर्णं स्वरूपेण किन्त्वनन्तरसमय एव यदुदीरणाभविकं तदुदीरयति, विशिष्टयोग्यताप्राप्तत्वात्, तत्र भविष्यतीति भवा सैव भविका, उदीरणा, भविका यस्येति प्राकृतत्वादुदीरणाभविकम्, अन्यथा भविकोदीरणमिति स्यात्, उदीरणायां वा भव्यं योग्यमुदीरणाभव्यमिति / नो उदयाणंतरपच्छाकडन्ति 4 उदयेनानन्तरसमये पश्चात्कृतमतीततां नीतं यत्तत्तथा तदपि नोदीरयति, तस्यातीतत्वादतीतस्य चासत्त्वाद्, असतश्चानुदीरणीयत्वादिति // इह च यद्यप्युदीरणादिषु कालस्वभावादीनां कारणत्वमस्ति तथापि प्राधान्येन पुरुषवीर्यस्यैव कारणत्वमुपदर्शयन्नाह जंत मित्यादि व्यक्तम्, नवरमुत्थानादिनोदीरयतीत्युक्तम्, तत्र च यदापन्नं तदाह, एवं सइ त्ति, एवमुत्थानादिसाध्य उदीरणे सती त्यर्थः, शेषं तथैव ॥काङ्कामोहनीयस्योदीरणोक्ता, अथ तस्यैवोपशमनमाह से णूण मित्यादि, उपशमनं मोहनीयस्यैव, यदाह मोहस्सेवोवसमो खाओवसमो चउण्ह घाईणं / उदयक्खयपरिणामा अट्ठण्हवि होंति कम्माणं॥१॥उपशमश्चोदीर्णस्य क्षयोनुदीर्णस्य Oउपशमो मोहस्यैव क्षयोपशमो घातिनां चतुर्णाम् / उदयक्षयपरिणामा अष्टानामपि कर्मणां भवन्ति // 1 // // 99 // 8888888888888888888880