________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 12 // १शतके उद्देशकः३ सूत्रम् 30 जिनोक्तसत्यता प्रश्नाः / सूत्रम् 31 निःशंकिताराधक प्रश्नः। तेहिं तेहिं ति तैस्तैर्दर्शनान्तरश्रवणकुतीर्थिकसंसर्गादिभिर्विद्वत्प्रसिद्धैः, द्विर्वचनं चेह वीप्सायाम्, कारणैः शङ्कादिहेतुभिः, किमित्याह, शङ्किताः, जिनोक्तपदार्थान् प्रति सर्वतो देशतो वा संजातसंशयाः, काशिताः, देशतः सर्वतो वा संजातान्यान्यदर्शनग्रहाः, वितिगिच्छिय त्ति विचिकित्सिताः, संजातफलविषयशङ्काः भेदसमापन्ना इति, किमिदं जिनशासनमाहोश्विदिदमित्येवं जिनशासनस्वरूपंप्रति मतेद्वैधीभावंगताः, अनध्यवसायरूपंवा मतिभङ्गगताः, अथवा यत एव शङ्कितादिविशेषणा अत एव मतेद्वैधीभावं गताः, कलुषसमापन्नाः नैतदेवमित्येवं मतिविपर्यासं गताः / एवं खल्वित्यादि, एवमित्युक्तेन प्रकारेण खलु त्ति वाक्यालङ्कारे निश्चयेऽवधारणे वा // 29 // एतच्च जीवानांकाङ्क्षामोहनीयवेदनमित्थमेवावसेयम्, जिनप्रवेदितत्वात्, तस्य च सत्यत्वादिति तत्सत्यतामेव दर्शयन्नाह से नूणं भंते! तमेव सच्चंणीसंकंजंजिणेहिं पवेइयं?, हंता गोयमा! तमेव सच्चंणीसंकंजंजिणेहिं पवेदितं ॥सूत्रम् 30 // से णूण मित्यादि व्यक्तम्, नवरं तदेव न पुरुषान्तरैः प्रवेदितम्, रागाद्युपहतत्वेन तत्प्रवेदितस्यासत्यत्वसम्भवात्, सत्यं सूनृतम्, तच्च व्यवहारतोऽपि स्यादत आह निःशङ्कमविद्यमानसन्देहमिति // 30 // अथ जिनप्रवेदितं सत्यमित्यभिप्रायवान् यादृशो भवति तदर्शयन्नाह से नूणं भंते! एवं मणं धारेमाणे एवं पकरेमाणे एवं चिट्टेमाणे एवं संवरेमाणे आणाए आराहए भवति?, हंता गोयमा! एवं मणं धारेमाणेजाव भवइ ।सूत्रम् 31 // से नूण मित्यादि व्यक्तम्, नवरं नूनं निश्चितम्, एवं मणं धारेमाणे त्ति तदेव सत्यं निःशर्छ यज्जिनैः प्रवेदित मित्यनेन प्रकारेण मनोमानसमुत्पन्नं सत् धारयन् स्थिरीकुर्वन्, एवं पकरेमाणे त्ति, उक्तरूपेणानुत्पन्नं सत् प्रकुर्वन् विदधानः, एवं चिट्ठमाणे त्ति, // 92 //