________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 91 // १शतके उद्देशक:३ सूत्रम् 29 काङ्कामोहनीये कारणप्रश्नाः। विचिकित्सादि प्रश्नाः। कर्मदलिकं निषिञ्चति ततो द्वितीयायां विशेषहीनम् एवं यावदुत्कृष्टायां विशेषहीनं निषिञ्चति, उक्तं च मोत्तूण सगमबाहं पढमाइ ठिईइ बहुतरं दव्वं / सेसं विसेसहीणं जावुक्कोसंति सव्वासिं // 1 // ति / उदीरणम्, अनुदितस्य करणविशेषादुदयप्रवेशनम्, वेदनमनुभवनम्, निर्जरणम्, जीवप्रदेशेभ्यः कर्मप्रदेशानांशातनमिति / इह च सूत्रसङ्ग्रहगाथा भवति, सा च गाहा कडचिए त्यादि, भावितार्था च, नवर माइतिए त्ति कृतचितोपचितलक्षणे चउभेय त्ति सामान्यक्रियाकालत्रयक्रियाभेदात्, तियभेय त्ति सामान्यक्रियाविरहात्, पच्छिम त्ति, उदीरितवेदितनिर्जीर्णा मोहपुद्गला इति शेषः, तिन्नि त्ति त्रयस्त्रिविधा इत्यर्थः / नन्वाद्ये सूत्रत्रये कृतचितोपचितान्युक्तान्युत्तरेषु कस्मान्नोदीरितवेदितनिर्जीर्णानि? इति, उच्यते, कृतं चितमुपचितंच कर्म चिरमप्यवतिष्ठत इति करणादीनां त्रिकालक्रियामात्राऽतिरिक्तं चिरावस्थानलक्षणनं कृतत्वाद्याश्रित्य कृतादीन्युक्तानि, उदीरणा(दी)नां तु न चिरावस्थानमस्तीति त्रिकालवर्त्तिना क्रियामात्रेणैव तान्यभिहितानीति ॥२८॥जीवाः काङ्खामोहनीयं कर्म वेदयन्तीत्युक्तम्, अथ तद्वेदनकारणप्रतिपादनाय प्रस्तावयन्नाह जीवाणं भंते! कंखामोहणिज्जं कम्मं वेदेति?, हंता वेदेति। कहन्नं भंते! जीवा कंखामोहणिज्जं कम्मं वेदेति?, गोयमा! तेहिं तेहिं कारणेहिं संकिया कंखिया वितिगिच्छिया भेदसमावन्ना क्लुससमावन्ना, एवं खलुजीवा कंखामोहणिज्जं कम्मं वेदेति॥सूत्रम् 29 // जीवाणं भंत! इत्यादि व्यक्तम्, नवरं ननुजीवाः कासामोहनीयं वेदयन्तीति प्राग् निर्णीतं किं पुनः प्रश्नः?, उच्यते, वेदनोपायप्रतिपादनार्थम्, उक्तं च पुव्वभणियंपि पच्छा जंभण्णइ तत्थ कारणं अत्थि। पडिसेहो य अणुन्ना हेउविसेसोवलंभोत्ति // 1 // स्वकीयामबाधां मुक्त्वा प्रथमायां स्थितौ बहुतरं द्रव्यं स्थापयति, शेषायां क्रमशो विशेषहीनं यावत् सर्वासामुत्कृष्टा // 1 // 0 पूर्व भणितमपि पश्चात्पुनर्यदण्यते तत्र प्रतिषेधोऽनुज्ञा हेतुविशेषोपलम्भ एतेषामन्यतमत् कारणमस्ति॥१॥