________________ श्रीभगवत्यङ्गं श्रीअभयवृत्तियुतम् भाग-१ // 87 // धतसंयमानामुत्कर्षेण मादतम्, विराहियसंजमाणं जासण देवलोएसु उववजमाणा १शतके उद्देशक:२ सूत्रम् 26 असंज्यायुष्यविचार प्रश्नाः / तेषामल्पबहुत्व प्रश्ना : / ज्वरितादिभूतिदानं प्रश्नाप्रश्नंच स्वप्नविद्यादि), सलिंगीणं ति रजोहरणादिसाधुलिङ्गवतां किंविधानामित्याह दंसणवावन्नगाणं ति दर्शनंसम्यक्त्वम्, व्यापन्नं भ्रष्टं येषां ते तथा तेषाम्, निह्नवानामित्यर्थः / एएसि णं देवलोएसु उववज्जमाणाणं ति, अनेन देवत्वादन्यत्रापि केचिदुत्पद्यन्त इति प्रतिपादितम्, विराहियसंजमाणं जहन्नेणं भवणवईसु उक्कोसेणं सोहम्मे कप्पेत्ति, इह कश्चिदाहविराधितसंयमानामुत्कर्षेण सौधर्मे कल्प इति यदुक्तं तत्कथं घटते?, द्रौपद्याः सुकुमालिकाभवे विराधितसंयमाया ईशान उत्पादश्रवणादिति, अत्रोच्यते, तस्याः संयमविराधनोत्तरगुणविषया बकुशत्वमात्रकारिणी न तु मूलगुणविराधनेति, सौधर्मोत्पादश्च विशिष्टतरसंयमविराधनायां स्यात्, यदि पुनर्विराधनमात्रमपि सौधर्मोत्पत्तिकारकं स्यात्तदा बकुशादीनामुत्तरगुणादिप्रतिसेवावतां कथमच्युतादिषूत्पत्तिः स्यात्?, कथञ्चिद्विराधकत्वात्तेषामिति / असन्नीणं जहन्नेणं भवणवासीसु उक्कोसेणं वाणमंतरेसु त्ति, इह यद्यपि चमरबलि सारमहिय (चमरबलीसागरमधिकम्) मित्यादिवचनादसुरादयो महर्द्धिकाः, पलिओवममुक्कोसं वंतरियाणं ति, इति वचनाच्च व्यन्तरा अल्पर्द्धिकास्तथाऽप्यत एव वचनादवसीयते, सन्ति व्यन्तरेभ्यः सकाशादल्पर्द्धयो भवनपतयः केचनेति // 25 // असञी देवेषूत्पद्यत इत्युक्तं स चायुषा, इति तदायुर्निरूपयन्नाह___ कतिविहे णं भंते! असन्नियाउए पण्णत्ते? गोयमा! चउव्विहे असन्निआउए पण्णत्ते, तंजहा- नेरइयअसन्निआउए तिरिक्ख० मणुस्स० देव०। असन्नी णं भंते! जीवे किं नेरइयाउयंपकरेइ तिरि० मणु देवाउयंपकरेइ?,हंता गोयमा! नेरइयाउयंपिपकरेइ तिरि० मणु० देवाउयंपि पकरेइ, नेरइयाउयं पकरेमाणे जहन्नेणं दसवाससहस्साई उक्कोसेणं पलिओवमस्स असंखेजइभागं पकरेति तिरिक्खजोणियाउयं पकरेमाणे जहन्नेणं अंतोमुहत्तं उक्कोसेणं पलिओवमस्स असंखेन्जइभागं पकरेइ, मणुस्साउएवि एवं चेव, देवाउयं जहा नेरइया॥ एयस्स णं भंते! नेरइयअसन्निआउयस्स तिरि० मणु० देवअसन्निआउयस्स कयरे कयरे जाव विसेसाहिए // 87 //