SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्ग श्रीअभय वृत्तियुतम् भाग-१ // 85 // १शतके उद्देशक:२ सूत्रम् 25 2-10 अविराधितसयमादिकिल्बिषान्तानांप्रश्नाः। सम्मद्दिट्ठी य जो जीवो॥१॥एतच्चायुक्तम्, यतोऽमीषामुत्कृष्टत उपरिमग्रैवेयकेषूपपात उक्तः, सम्यग्दृष्टीनां तु देशविरतानामपि न तत्रासौ विद्यते, देशविरतश्रावकाणामच्युतादूर्ध्वमगमनात्, नाप्येते निह्नवाः, तेषामिहैव भेदेनाभिधानात्, तस्मान्मिथ्यादृष्टय एवाभव्या भव्या वा असंयतभव्यद्रव्यदेवाःश्रमणगुणधारिणो निखिलसामाचार्यनुष्ठानयुक्ता द्रव्यलिङ्गधारिणो गृह्यन्ते, ते खिलकेवलक्रियाप्रभावत एवोपरिमौवेयकेषूत्पद्यन्त इति, असंयताश्च ते सत्यप्यनुष्ठाने चारित्रपरिणामशून्यत्वात्, ननुकथं तेऽभव्यावा श्रमणगुणधारिणो भवन्ति? इति, अत्रोच्यते, तेषां हि महामिथ्यादर्शनमोहप्रादुर्भावे सत्यपिचक्रवर्तिप्रभृत्यनेकभूपतिप्रवरपूजासत्कारसन्मानदानान्साधून समवलोक्य तदर्थं प्रव्रज्याक्रियाकलापानुष्ठानं प्रति श्रद्धा जायते, ततश्च ते यथोक्तक्रियाकारिण इति / तथा, अविराहियसंजमाणं ति प्रव्रज्याकालादारभ्याभग्नचारित्रपरिणामानां सज्वलनकषायसामर्थ्यात् प्रमत्तगुणस्थानकसामर्थ्याद्वा स्वल्पमायादिदोषसम्भवेऽप्यनाचरितचरणोपघातानामित्यर्थः, तथा विराहियसंजमाणं ति, उक्तविपरीतानाम्, अविराहियसंजमासंजमाणं ति प्रतिपत्तिकालादारभ्याखण्डितदेशविरतिपरिणामानां श्रावकाणाम्, विराहियसंजमासंजमाणं ति, उक्तव्यतिरेकिणामसन्नीणं ति मनोलब्धिरहितानामकामनिर्जरावताम्, तथा तावसाणं ति पतितपत्राद्युपभोगवतां बालतपस्विनाम्, तथा कन्दप्पियाणं ति कन्दर्पः परिहासः स येषामस्ति तेन वा ये चरन्ति ते कन्दर्पिकाः कान्दर्पिका वा व्यवहारतश्चरणवन्त एव कन्दर्पकौकुच्यादिकारकाः, तथाहि कहकहकहस्स हसनं कंदप्पो अणिहुया य उल्लावा / कंदप्पकहाकहणं कंदप्पुवएस संसा य॥१॥ भुमनयणवयणदसणच्छदेहिं करपायकन्नमाईहिं / तं तं करेइ जह जह हसइ परो अत्तणा अहसं // 3 Oकहकहकहेन हसनं कन्दर्पोऽनिभृताश्चोल्लापाः / कन्दर्पकथाकथनं कन्दर्पोपदेशः कन्दर्पप्रशंसा च॥ 1 // ॐ धूनयनवदनदन्तोष्ठेन करपादकर्णादिकैस्तत्तत्करोति यथा यथा परो हसत्यात्मनाऽहसन्। // 85 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy