________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 83 // १शतके उद्देशकः 2 सूत्रम् 24 जीवस्य संसारवस्थान प्रश्नः। जोणियाणं सव्वत्थोवे असुन्नकाले त्ति, सचान्तर्मुहूर्त्तमात्रः, अयं च यद्यपिसामान्येन तिरश्चामुक्तस्तथाऽपि विकलेन्द्रियसंमूर्छिमानामेवावसेयः, तेषामेवान्तर्मुहूर्त्तमानस्य विरहकालस्योक्तत्वात्, यदाह भिन्नमुहुत्तो विगलिंदिएसु सम्मुच्छिमेसुवि स एव, एकन्द्रियाणां तूद्वर्त्तनोपपातविरहाभावेनाशून्यकालाभाव एव, आह च एगो असंखभागो वट्टइ उव्वट्टणोववायंमि। एगनिगोए निच्चं एवं सेसेसुवि स एव // 1 // पृथिव्यादिषु पुनः, अणुसमयमसंखेज्ज त्ति वचनाद्विरहाभाव इति, मिस्सकाले अणंतगुणे त्ति नारकवत्, शून्यकालस्तु तिरश्चांनास्त्येव, यतो वार्त्तमानिकसाधारणवनस्पतीनां तत उद्वृत्तानां स्थानमन्यन्नास्ति, मणुस्सदेवाणं जहा नेरइयाणं ति, अशून्यकालस्यापि द्वादशमुहूर्त्तप्रमाणत्वात्, अत्र गाथा एवं नरामराणवि तिरियाणं नवरि नत्थि सुन्नद्धा / जं निग्गयाण तेसिं भायणमन्नं तओ नत्थि॥१॥ इति / एयस्से त्यादि व्यक्तम् // 23 // किं संसार एवावस्थानं जीवस्य स्यादुत मोक्षेऽपि? इति शङ्कायां पृच्छामाह जीवेणं भंते! अंतकिरियं करेजा?, गोयमा! अत्थेगतिया करेजा अत्थेगतिया नोकरेजा, अंतकिरियापयं नेयव्वं ॥सूत्रम् 24 // जीवेण मित्यादि व्यक्तम्, नवरम् अंतकिरियं ति, अन्त्या च सा पर्यन्तवर्तिनी क्रिया चान्त्यक्रिया, अन्त्यस्य वा कर्मान्तस्य क्रिया, अन्तक्रिया, कृत्स्नकर्मक्षयलक्षणां मोक्षप्राप्तिमित्यर्थः / अंतकिरियापयं नेयव्वं ति, तच्च प्रज्ञापनायां विंशतितमम्, तच्चैवम्, जीवे णं भंते! अंतकिरियं करेज्जा?, गोयमा! अत्थेगइए करेजा अत्थेगइए णो करेज्जा, एवं नेरइए जाव वेमाणिए, भव्यः कुर्यान्नेतर इत्यर्थः, नेरइया णं भंते! नेरइएसु वट्टमाणे अंतं करेज्जा?, गोयमा! नो इणढे समट्ठ इत्यादि नवरं मणुस्सेसु अंतं करेजा BO विकलेन्द्रियेषु भिन्नमुहूर्तः संमूर्च्छिमेष्वपि स एव (कालः।)0 एकस्मिन्निगोदे एकोऽसङ्ख्यातभागो नित्यमुद्वर्तनोपपातयोर्वर्तते शेषनिगोदेष्वप्येवं स एव (असङ्ख्यातभागः।) 0 एवं- नारकवन्नरामराणां तिरश्वामपि, परं तिरश्वां न शून्यकालः, यस्मात्ततो निर्गतानां तेषामन्यत्स्थानं नास्ति (अनन्तानन्तत्वात् ) / // 83 //