SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ श्रीभगवत्यङ्गं श्रीअभय वृत्तियुतम् भाग-१ // 82 // नस्यात्, आह च एयं पुण ते जीवे पडुच्च सुत्तं न तब्भवं चेव / जइ होज्ज तब्भवं तो अनन्तकालोण संभवइ॥१॥कस्मात्? इति चेद्, उच्यते, ये वार्त्तमानिका नारकास्ते स्वायुष्ककालस्यान्त उद्वर्त्तन्ते, असङ्ख्यातमेव च तदायुः, अत उत्कर्षतो द्वादशमौहूर्तिकाशून्यकालापेक्षया मिश्रकालस्यानन्तगुणत्वाभावप्रसङ्गादिति, आह च किं कारणमाइट्ठा नेरइया जे इमम्मि समयम्मि। ते ठिइ-0 कालस्संते जम्हा सव्वे खविखंति॥१॥ इति / सव्वत्थोवे असुन्नकाले त्ति नारकाणामुत्पादोद्वर्त्तनाविरहकालस्योत्कर्षतोऽपि द्वादशमुहूर्त्तप्रमाणत्वात्, मीसकाले अणंतगुणे त्ति मिश्राख्यो विवक्षितनारकजीवनिर्लेपनाकालोऽशून्यकालापेक्षयाऽनन्तगुणो भवति, यतोऽसौ नारकेतरेष्वागमनगमनकालः, स च वनस्पतिकायस्थितेरनन्तभागे वर्त्तत इति, त्रसवनस्पत्यादिस्थितिकालमिश्रितः सन्ननन्तगुणो भवति, त्रसवनस्पत्यादिगमनागमनानामनन्तत्वात्, स च नारकनिर्लेपनाकालो उक्तं च थोवो असुन्नकालो सो उक्कोसेणं बारसमुहुत्तो। तत्तो य अणंतगुणो मीसो निल्लेवणाकालो॥१॥ आगमणगमणकालो तसाइतरुमीसिओ अणंतगुणो। अह निल्लेवणकालो अणंतभागे वणद्धाए॥२॥त्ति / सुन्नकाले अणंतगुणे त्ति सर्वेषां विवक्षितनारकजीवानां प्रायो। वनस्पतिष्वनन्तानन्तकालमवस्थानात्, एतदेव वनस्पतिष्वनन्तानन्तकालावस्थानंजीवानांनारकभवान्तरकाल उत्कृष्टोदेशितः। समय इति, उक्तं च सुन्नो य अणंतगुणो सो पुण पायं वणस्सइगयाणं / एयं चेव य नारयभवंतरं देसियं जेट्ठ॥१॥ति / तिरिक्ख-8 Oएतत्सूत्र पुनस्तान् जीवान् प्रतीत्य, नैव तद्भवं, यदि तद्भवं प्रतीत्य भवेत्तदाऽनन्तकालो न संभवति (असङ्ग्यातसमयस्थितिकालात्) // 1 // 0 किं कारणसम्भवे? अस्मिन् समये ये नैरयिका आदिष्टाः स्थितिकालस्यान्ते ते सर्वे यस्मादुर्तिष्यन्ते॥१॥ 0 अशून्यकालः स्तोकः स उत्कृष्टेन द्वादशमुहर्त्तः / ततश्चानन्तगुणो मिश्रो निर्लेपनाकालः // 1 // आगमनगमनकालस्त्रसादितरुमिश्रितोऽनन्तगुणः। अथ च निर्लेपनकालोऽनन्तभागे वनकालस्य / / 2 / / शून्यश्वानन्तगुणः स पुनःप्रायो वनस्पतिगतानाम्। एतदेव चोत्कृष्ट नारकभवान्तरं दर्शितं ज्येष्ठम् (अस्ति)। १शतके उद्देशक:२ सूत्रम् 23 पशवः पशुत्वमश्नुवत इत्यादिवचनवत्किमेकधैव जीवस्यावस्थानमिति प्रश्नाः / // 82 //
SR No.600443
Book TitleVyakhyapragnaptisutram Part 01
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages578
LanguageSanskrit
ClassificationManuscript & agam_bhagwati
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy