________________ श्रीभगवत्य श्रीअभय. वृत्तियुतम् भाग-१ // 81 // त्ति, अनादावतीते काले, कतिविध उपाधिभेदात्कतिभेदः संसारस्य भवाद्भवान्तरे संचरणलक्षणस्य संस्थानमवस्थितिक्रिया तस्य कालोऽवसरः संसारसंस्थानकालः, अमुष्य जीवस्यातीतकाले कस्यां कस्यां गताववस्थानमासीत्? इत्यर्थः, अत्रोत्तरम्, चतुर्विध उपाधिभेदादिति भावः, तत्र नारकभवानुगतसंसारावस्थानकालस्त्रिधा शून्यकालोऽशून्यकालो मिश्रकालश्चेति, तिरश्चांशून्यकालो नास्तीति तेषां द्विविधः, मनुष्यदेवानां त्रिविधोऽप्यस्ति, आह च सुन्नासुन्नो मीसो तिविहो संसारचिट्ठणाकालो। तिरियाण सुन्नवज्जो सेसाणं होइ तिविहोवि // 1 // तत्राशून्यकालस्तावदुच्यते, अशून्यकालस्वरूपपरिज्ञाने हि सतीतरौ सुज्ञानौ भविष्यत इति, तत्र वर्तमानकाले सप्तसु पृथिवीषु ये नारका वर्तन्ते तेषां मध्याद्यावन्न कश्चिदुद्वर्त्तते न चान्य उत्पद्यते तावन्मात्रैव त आसते स कालस्तान्नारकानङ्गीकृत्याशून्य इति भण्यते, आह च आइट्ठसमइयाणं नेरइयाणं न जाव एक्कोवि। / उव्वट्टइ अन्नो वा उववज्जइ सो असुन्नो उ॥१॥मिश्रकालस्तु तेषामेव नारकाणांमध्यादेकादय उद्वृत्ता यावदेकोऽपि शेषस्तावन्मिश्रकालः, शून्यकालस्तु यदा त एवादिष्टसामयिका नारकाः सामस्त्येनोद्वृत्ता भवन्ति नैकोऽपि तेषां शेषोऽस्ति स शून्यकाल इति, आहच उव्वट्टे एक्कमिविता मीसो धरइ जाव एक्कोवि। निल्लेविएहिँ सव्वेहि वट्टमाणेहिं सुन्नो उ॥१॥ इदंच मिश्रनारकसंसारावस्थानकालचिन्तासूत्रं न तमेव वार्त्तमानिकनारकभवमङ्गीकृत्य प्रवृत्तम्, अपि तु वार्त्तमानिकनारकजीवानां गत्यन्तरगमने तत्रैवोत्पत्तिमाश्रित्य, यदि पुनस्तमेव नारकभवमङ्गीकृत्येदं सूत्रं स्यात्तदाऽशून्यकालापेक्षया मिश्रकालस्यानन्तगुणता सूत्रोक्ता ®शून्योऽशून्यो मिश्रस्त्रिविधः संसारस्थानकालः। तिरश्चां शून्यवर्त्यः शेषाणां भवति त्रिविधोऽपि॥ 1 // ॐ आदिष्टसामयिकानां नैरयिकाणां यावदेकोऽपि नोद्वर्त्ततेऽन्यो वोत्पद्यते सोऽशून्य एव // 1 // 0 एकस्मिन्नप्युद्वृत्ते यावदेकोऽपि तिष्ठति तावन्मित्र : / वर्तमानेषु सर्वेषु निर्लेपितेषु शून्यस्तु॥१॥ १शतके उद्देशक:२ सूत्रम् 23 पशवः पशुत्वमनुवत इत्यादिवचनवत्किमेकधैव जीवस्यावस्थानमिति प्रश्नाः / // 81 //