SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ [[1] उपक्रमः / लौकिकोपक्रमः। | श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। / / 75 // सूत्रम् 76-78 नामादिषनिक्षेपाः। 1.3 द्रव्योपक्रमः। १आग०२नोआ 2 नोआ०३ व्या 1.3.2.3.1 सचित्तादित्रयो भेदाः / तिविहे पण्णत्ते, तंजहा- सचित्ते 1 अचित्ते 2 मीसए 3 // सूत्रम् 78 // // 60 // ) से किं तं उवक्कमे उवक्कमे छविहे पण्णत्ते, इत्यादि। अत्र क्वचिदेवं दृश्यत उवक्कमे दुविहे पण्णत्ते, इत्यादि, अयं च पाठ आधुनिकोऽयुक्तश्च, अहवा उवक्कमे छविहे पण्णत्तेइत्यादिवक्ष्यमाणग्रन्थोपन्यासस्याघटमानताप्रसङ्गात् / यदिशास्त्रीयोपक्रमोऽत्र प्रतिज्ञातः स्यात्तदा वक्ष्यमाणसूत्रमेवं स्यात्से किं तं सत्थोवक्कमे? सत्थोवक्कमे छविहे पण्णत्ते इत्यादि, न चैवं तस्मान्नेह सूत्रे द्वैविध्यप्रतिज्ञा, किन्त्वितरोपक्रमभणनं चेतसि विकल्प्य यथानिर्दिष्टमेव सूत्रमुक्तमित्यलं विस्तरेण / प्रकृतं प्रस्तुमः, तत्र नामस्थापनोपक्रमव्याख्या नामस्थापनावश्यकव्याख्यानुसारेण कर्तव्या, द्रव्योपक्रमव्याख्यापि द्रव्यावश्यकवदेव याव त्से किंतं जाणगसरीरभवियसरीरवतिरित्ते दव्वोवक्कमे? इत्यादि / तत्र द्रव्यस्य नटादेरुपक्रमणं कालान्तरभाविनापि पर्यायेण सहेदानीमेवोपायविशेषतः संयोजनं द्रव्योपक्रमोऽथवा द्रव्येण घृतादिना, द्रव्ये भूम्यादौ, द्रव्याद् घृतादेरेवोपक्रमो द्रव्योपक्रम इत्यादिकारकयोजना विवक्षया कर्तव्येति ।सच त्रिविधः प्रज्ञप्तः, तद्यथा, सचित्तद्रव्यविषय: सचित्तः, अचित्तद्रव्यविषयोऽचित्तः, मिश्रद्रव्यविषयस्तु मिश्रः, द्रव्योपक्रम इति वर्तते / / 78 // से किं तं सचित्त दव्वोवक्कमे?, 2 तिविहे पण्णत्ते, तंजहा- दुपयाण 1 चउप्पयाणं 2 अपयाणं 3, एक्कक्के दुविहे- परिक्कमे य वत्थुविणासे य / / सूत्रम् 79 // ( // 61 // ) तत्र सचित्तद्रव्योपक्रमस्त्रिविधः, तद्यथा, द्विपदानां नटनर्तकादीनाम्, चतुष्पदानामश्वहस्त्यादीनाम्, अपदानामाम्रादीनाम् / तत्रैकैक: पुनरपि द्विधा, परिकर्मणि वस्तुविनाशे च। तत्रावस्थितस्यैव वस्तुनो गुणविशेषाधानं परिकर्म / तत्र परिकर्मणि ©ते / ७'दुपए 1 चउपए 2 अपए 3 एक्किके पुण दुविहे पण्णत्ते तंजहा' इति रूपेण वर्तते / सूत्रम् 79 1.3 द्रव्योपक्रमः। १आग०२नोआ० 2 नोआ०३ व्य 1.3.2.3.1 सचित्तद्रव्योपक्रमः द्विपदादि त्रयोभेदाः। // 7 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy