________________ अध्ययनाधिकारः। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 74 // सूत्रम् 74-75 [२]आवश्यकस्य चण्णामध्ययनाना नामानि द्वाराणि च। अथवोपक्रम्यतेऽस्माद्विनीतविनेयविनयादित्युपक्रमः। विनयेनाराधितो हि गुरुर्निक्षेपयोग्यं शास्त्रं करोतीति भावः। तदेवं करणाधिकरणापादानकारकैर्गुरुवाग्योगादयोऽर्था भेदेनोक्ताः। यदि त्वेकोऽप्यन्यतरोऽर्थः करणादि- कारकवाच्यत्वेन विवक्ष्यते तथापिनदोषः / एवं निक्षेपणंशास्त्रदेर्नामस्थापनादिभेदैर्व्यसनंव्यवस्थापनं निक्षेपः। निक्षिप्यते नामादिभेदैर्व्यवस्थाप्यतेऽनेनास्मिन्नस्मादिति वा निक्षेपः, वाच्यार्थविवक्षा तथैव / एवमनुगमनं सूत्रस्यानुकूलमर्थकथनमनुगमः। अथवानुगम्यते व्याख्यायते सूत्रमनेनास्मिन्नस्मादिति वानुगमः, वाच्यार्थविवक्षा तथैव। एवं नयनंनयो नीयते परिच्छिद्यतेऽनेनास्मिन्नस्मादिति ] चत्वार्यनुयोगवा नयः। सर्वत्रानन्तधर्माध्यासिते वस्तुन्येकांशग्राहको बोध इत्यर्थः / अत्र चोपक्रान्तमेव निक्षेपयोग्यतामानीतमेव निक्षिप्यत इत्युपक्रमानन्तरं निक्षेप उपन्यस्तः। नामादिभेदैनिक्षिप्तमेव चानुगम्यत इति निक्षेपानन्तरमनुगमः। अनुगम्यमानमेव च नयैर्विचार्यते नान्यथेति तदनन्तरं नय इति यथोक्तक्रमेणोपन्यासः फलवानिति // 75 // तत्रोपक्रमो द्विधा, शास्त्रीय इतरश्च लोकप्रसिद्धः / तत्रेतराभिधित्सया प्राह ॥अथ उपक्रमाख्यं प्रथममनुयोगद्वारम् // से किं तं उवक्कमे?, 2 छविहे पण्णत्ते, तंजहा- नामोवक्कमे 1 ठवणोवक्कमे 2 दव्वोवक्कमे 3 खेत्तोवक्कमे 4 कालोवक्कमे 5 भावोवक्कमे ६॥सूत्रम् 76 // नामठवणाओगयाओ॥सूत्रम् 77 // से किंतंदव्वोवक्कमे?,२दुविहे पण्णत्ते, तंजहा-आगमओयनोआगमओय, जाव जाणगसरीरभवियसरीरवतिरित्तेदव्वोवक्कमे सूत्रम् 76-78 [2] उपक्रमः / लौकिकोपक्रमः नामादिघइनिक्षेपाः। 1.3 द्रव्यो पक्रमः। १आग० २नोआ। २नोआ० ३व्य०। 1.3.2.3.1 सचित्तादित्रयो भेदाः / // 74 //