________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 73 // अध्ययनाधिकारः। सूत्रम् 74-75 [२]आवश्यकस्य षण्णामध्ययनानां नामानि चत्वार्यनुयोगद्वाराणि च। प्रथममाद्यमध्ययनं सामायिकम्, आधुपन्यासश्चास्य निःशेषचरणादिगुणाधारत्वेन प्रधानमुक्तिकारणत्वादुक्तं च, सामायिकं गुणानामाधारः खमिव सर्वभावानाम् / न हि सामायिकहीनाश्चरणादिगुणान्विता येन // 1 // तस्माजगाद भगवान् सामायिकमेव निरुपमोपायम् / शारीरमानसानेकदुःखनाशस्य मोक्षस्य॥२॥ तत्र बोधादेरधिकमयनं प्रापणमध्ययनम् / प्रपञ्चतो वक्ष्यमाणशब्दार्थम्। सामायिकमित्यत्र यःसर्वभूतान्यात्मवत्पश्यति स रागद्वेषवियुक्तः समः, तस्यायःप्रतिक्षणंज्ञानादिगुणोत्कर्षप्राप्ति: समायः। समो हि प्रतिक्षणमपूर्वैः ज्ञानदर्शनचरणपर्यायैर्भवाटवीभ्रमणहेतुसंक्लेशविच्छेदकैर्निरुपमसुखहेतुभिः संयुज्यते / समायः प्रयोजनमस्याध्ययनस्य ज्ञानक्रियासमुदायरूपस्येति सामायिकम्, समाय एव सामायिकम्, तस्य सामायिकस्य, णमिति वाक्यालङ्कारे, इमेत्त्यमूनि वक्ष्यमाणलक्षणानि चत्वार्यनुयोगद्वाराणि भवन्ति / तत्राध्ययनार्थकथनविधिरनुयोगः, द्वाराणीव द्वाराणि महापुरस्येव सामायिकस्य, अनुयोगार्थं व्याख्यार्थं द्वाराण्यनुयोगद्वाराणि / अत्र नगरदृष्टान्तं वर्णयन्त्याचार्याः, यथा ह्यकृतद्वारं नगरमनगरमेव भवति, निर्गमप्रेवशोपायाभावतोऽनधिगमनीयत्वात्कृतैकद्विकादिद्वारमपि दुरधिगम कार्यातिपत्तये च भवति / चतुर्मूलद्वारंतु प्रतिद्वारानुगतं सुखाधिगम कार्यानतिपत्तये च सम्पद्यते। एवं सामायिकपुरमप्यर्थाधिगमोपायद्वारशून्यमशक्याधिगमं स्याद्, एकादिद्वारानु गतमपि दुरधिगमं भवेत्सप्रभेदचतुर्दारानुगतं तु सुखाधिगमं भवत्यत: फलवाँस्तदधिगमार्थो द्वारोपन्यासः।कानि पुनस्तानीति तद्दर्शनार्थमाह- तद्यथेत्यादि / तत्रोपक्रमणं दूरस्थस्य वस्तुनस्तै: तैः प्रतिपादनप्रकारैः समीपमानीय निक्षेपयोग्यताकरणमुपक्रमः, उपक्रान्तं ह्युपक्रमान्तर्गतभेदैर्विचारितं हि निक्षिप्यते नान्यथेति भावः / उपक्रम्यतेवा निक्षेपयोग्यं क्रियतेऽनेन गुरुवागयोगेनेत्युपक्रमः / अथवोपक्रम्यतेऽस्मिञ्छिष्यश्रवणभावे सतीत्युपक्रमः। 7 व्याख्यानार्थमिति। // 73 //