SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 67 // स्कन्धस्य निक्षेपाः। सूत्रम् 65-66 प्रकारान्तरेण [[7] 3.2.3 व्यतिरिक्तः स्कन्धस्विविधः [8]3.2.3.1 कृत्स्नस्कन्धः। सूत्रम् 65 // ( // 50 // ) अहवा जाणगेत्यादि। अथवान्येन प्रकारेण ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्कन्धस्त्रिविधः प्रज्ञप्तः, तद्यथा, कृत्स्नस्कन्धोऽकृत्स्नस्कन्धोऽनेकद्रव्यस्कन्धः॥६५॥ तत्राद्यभेदनिरूपणार्थमाह__ से कितं कसिणखंधे? 2 से चेव हयक्खंधे गयक्खंधे जाव उसभखंधे, सेतं कसिणखंधे॥सूत्रम् 66 // // 51 // ) से किं तमित्यादि। अत्रोत्तरम्, कसिणक्खंधे, इत्यादि। यस्मादन्यो बृहत्तरः स्कन्धो नास्ति स कृत्स्नः, परिपूर्णः स्कन्धः कृत्स्नस्कन्धः / कोऽयमित्याह, से चेवेत्यादि। स एव हयखंधेत्यादिनोपन्यस्तो हयादिकस्कन्धः कृत्स्नस्कन्धः / आह यद्येवं प्रकारान्तरत्वमसिद्धम्, सचित्तस्कन्धकस्यैव संज्ञान्तरेणोक्तत्वात् / नैतदेवम्, प्राक्सचित्तद्रव्यस्कन्धाधिकारात्तथाऽसम्भविनोऽपि बुद्ध्या निष्कृष्य जीवा एवोक्ताः, इह तु जीवतदधिष्ठितशरीरावयवलक्षणः समुदायः कृत्स्नस्कन्धत्वेन विवक्षित इत्यतोऽभिधेयभेदात्सिद्धं प्रकारान्तरत्वम् / यद्येवं तर्हि हयादिस्कन्धस्य कृत्स्नत्वं नोपपद्यते, तदपेक्षया गजादिस्कन्धस्य बृहत्तरत्वात् / नैतदेवम्, यतोऽसङ्खयेयप्रदेशात्मको जीवस्तदधिष्ठिताश्चशरीरावयवा इत्येवंलक्षण:समुदायो हयादिस्कन्धत्वेन विवक्षितो जीवस्य चासङ्खयेयप्रदेशात्मकतया सर्वत्र तुल्यत्वाद्गजादिस्कन्धस्य बृहत्तरत्वमसिद्धम् / यदि हि जीवप्रदेशपुगलसमुदायः सामस्त्येन वर्द्धत तदा स्याद्जादिस्कन्धस्य बृहत्त्वंतच्च नास्ति, समुदायवृद्ध्यभावात्तस्मादितरेतरापेक्षया जीवप्रदेशपुद्गलसमुदायस्य हीनाधिक्याभावात्सर्वेऽपि हयादिस्कन्धाः परिपूर्णत्वात्कृत्स्नस्कन्धाः। अन्ये तु पूर्वं सचित्तस्कन्धविचारे न्धविचार जीवतदधिष्ठितशरीरावयवसमुदायः सचित्तस्कन्धोऽत्र तु शरीरादुद्ध्या पृथक्कृत्य जीव एव केवलः कृत्स्नस्कन्ध इति व्यत्ययं व्याचक्षते / अत्र च व्याख्याने प्रेर्यमेव नास्ति, हयगजादिजीवानां प्रदेशतो हीनाधिक्याभावेन कृत्स्नस्कन्धत्वस्य सर्वत्रा // 67 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy