________________ स्कन्धस्य निक्षेपाः। | श्रीअनुयोग- द्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। पृच्छति, से किंतं सचित्तदव्वखंधे?, 2 अणेगविहे पण्णत्ते, तंजहा- हयखंधे गयखंधे किन्नरखंधे किंपुरिसखंधे महोरगखंधे उसभखंधे, सेतंसचित्तदव्वखंधे॥सूत्रम् 62 // ( // 47 // ) से किं तमित्यादि। अत्रोत्तरम्, सचित्तदव्वखंधे अणेगविहे पण्णत्ते, इत्यादि। चित्तं मनो विज्ञानमिति पर्यायाः। सह चित्तेन वर्तत इति सचित्तः, स चासौ द्रव्यस्कन्धश्चेति सचित्तद्रव्यस्कन्धोऽनेकविधो व्यक्तिभेदतोऽनेकप्रकारः प्रजुप्तः। तद्यथा, हयस्कन्धेत्यादि। हयः तुरगः, स एव विशिष्टैकपरिणामपरिणतत्वात्स्कन्धो हयस्कन्धः / एवं गजस्कन्धादिसमासः / नवरं किन्नरकिम्पुरुषमहोरगा व्यन्तरविशेषाः / उसभत्ति वृषभः / क्वचिद्गन्धर्वस्कन्धादीन्यधिकान्यप्युदाहरणानि दृश्यन्ते, सुगमानि च। नवरं पसुपसयविहगवानरखंधेत्ति क्वचिद् दृश्यते, तत्र पशुः छगलकः, पसयस्त्वाटविको द्विखुरः चतुष्पदविशेषः, विहगः पक्षी, वानरः प्रतीतः, स्कन्धशब्दस्तु प्रत्येकं द्रष्टव्यः / इह च सचित्तस्कन्धाधिकाराज्जीवानामेव च परमार्थतः सचेतनत्वाकथञ्चिच्छरीरैः सहाभेदे सत्यपि हयादीनां सम्बन्धिनो जीवा एव विवक्षिताः, न तु तदधिष्ठितशरीराणीति सम्प्रदायः / न च जीवानांस्कन्धत्वंनोपपद्यते, प्रत्येकमसङ्खयेयप्रदेशात्मकत्वेन तेषांस्कन्धत्वस्य सुप्रतीतत्वादिति / हयस्कन्धादीनामन्यतरेणैकेनाप्युदाहरणेन सिद्धं किं प्रभूतोदाहरणाभिधानेनेति चेत्, सत्यम्, किन्तु पृथग्विभिन्नस्वरूपविजातीयस्कन्धबहुत्वाभिधानेनात्माद्वैतवादं निरस्यति, तथाभ्युपगमे मुक्तेतरादिव्यवहारोच्छेदप्रसङ्गात् / से तमित्यादि निगमनम् ॥६२॥अथाचित्तद्रव्यस्कन्धनिरूपणार्थमाह ते। (c) 'गंधव्वखंधे', इति पदमधिकं वर्तते। 0 गजस्कन्धादिष्वपि समासः / 7 भिन्न / सूत्रम् 62 [3]3 द्रव्यस्कन्धम्। २नोआ० 3 व्यतिरिक्तः। १सचित्तः २अचित्तः ३मिश्रः। [4] 3.2.3.1 सचित्तद्र०स्का // 65 //