SearchBrowseAboutContactDonate
Page Preview
Page 83
Loading...
Download File
Download File
Page Text
________________ श्रुतस्य निक्षेपाः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 61 // सूत्रम् 50 [८]४.२नोआ भावश्रुतम्, [10]4.2.2 लोकोत्तरिकम् / द्वादशाङ्गं गणिपिटकम्। जीवादि वस्तु केवलज्ञानेन जानन्तीति सर्वज्ञा: तैः, तदेव सर्वं केवलदर्शनेन पश्यन्तीति सर्वदर्शिनस्तैः / शाक्यानांत्वतीताद्यर्थज्ञातृत्वेऽपि सर्वज्ञादित्वं नोपपद्यते, कतिपयधर्माद्यभीष्टपदार्थज्ञातृत्वस्यैव तेष्वभ्युपगमाद्, यत उक्तं तच्छिष्यैः, सर्वं पश्यतु मा वाऽसाविष्टमर्थं तु पश्यतु / कीटसङ्ख्यापरिज्ञानं, तत्र(स्य) न: क्वोपयुज्यते?॥१॥(प्रमाण वा०१/३३-३५) इत्यादि। यथोक्तगुणविशिष्टा एव तिलुक्कचहियमहियेत्यादि। चहियत्ति विगलQहलानन्दाश्रुदृष्टिभिः सहर्ष निरीक्षिता यथावस्थितानन्यसाधारणगुणोत्कीर्तनलक्षणेन भावस्तवेन महिताअभिष्टुताः सुगन्धिसुमनःप्रकरक्षेपादिना तु द्रव्यस्तवेन पूजिताः। तत एषां द्वन्द्वे त्रैलोक्येन भवनपति व्यन्तर नर विद्याधर वैमानिकादिसमुदायलक्षणेन चहितमहितपूजिता(स्त्रैलोक्यचहितमहितपूजिता) स्तैः। आह, ननूत्पन्नज्ञानदर्शनधरैरित्युक्तमुत्पत्तिमच्चसप्रतिघं दृष्टं यथा मूर्तेष्ववध्यादिज्ञानम्, उत्पन्ने चतज्ज्ञानदर्शने अभ्युपगते, अतस्ताभ्यां तेसप्रतिघज्ञानिनःप्राप्नुवन्ति, तथा च पूर्वोक्तसर्वज्ञत्वादिहानिरित्याशङ्कयाह- अप्रतिहतवरज्ञानदर्शनधरैरिति, समस्तावरणक्षयसम्भूतत्वादप्रतिहते, मूर्तामूर्तेषु समस्तवस्तुष्वस्खलिते, अत एव वरेप्रधाने केवलज्ञानदर्शनलक्षणे ज्ञानदर्शने धरन्ति ये ते तथा तैः / यत्त्ववध्यादेः सप्रतिघत्वं तन्नोत्पत्तिमत्त्वेन, किंतर्हि?, आवरणसद्भावाद्, अतोऽप्रतिघकेवलज्ञानदर्शने समस्तावरणक्षयसम्भूतत्वात्तत्क्षयेऽपि सप्रतिघत्वाभ्युपगमेऽतिप्रसङ्गाद् / इदं च विशेषणं कस्याञ्चिदेव वाचनायां दृश्यते, न सर्वत्र / तदेवं यथोक्तप्रकारेण तावव्याख्यातान्यमूनि विशेषणानि, अन्यथा वाविरोधत: सुधिया व्याख्येयानि / तैरर्थकथनद्वारेण प्रणीतंप्ररूपितम्, किं तद्? द्वादशाङ्गं श्रुतंपरमपुरुषस्याङ्गानीवाङ्गानि द्वादशाङ्गान्याचारादीनि यत्र तबादशाङ्गम् / किंभूतं? गणिपिटकं गुणगणोऽस्यास्तीति गणी, आचार्यस्तस्य पिटकं सर्वस्वं गणिपिटकम् / तद्यथा, आचार इत्यादि सुगमम् / अत्र विशिष्टत्वा 'त्तिलुक्कवहिय.. 10व। 0 पुष्प / 0 अत्रा। उत्स। // 61 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy