SearchBrowseAboutContactDonate
Page Preview
Page 81
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 59 // कोडिल्लयं घोडमुहंसगभद्दिआओ कप्पासि नागसुहुमंकणगसत्तरी वइसेसियंबुद्धवयणं वेसितं काविलं लोयाययंसट्ठितंतंमाढरं पुराणं वागरणं नाडगादी, अहवा बावत्तरिकलाओ चत्तारि य वेदा संगोवंगा, सेतं लोइयं भावसुयं ॥सूत्रम् 49 // ( // 41 // ) B से किं तमित्यादि। अत्र निर्वचनम्, लोइयं भावसुतं जं इममित्यादि। लोकैः प्रणीतं लौकिकम् / किं पुनस्तदित्याह, यदिदमज्ञानिकर्मिथ्यादृिष्टिभिः स्वच्छन्दबुद्धिमतिविकल्पितं तल्लौकिकम्, भावश्रुतमिति सम्बन्धः। तत्राल्पज्ञानभावतोऽधनवदशीलवद्वा सम्यग्दृष्टयोऽप्यज्ञानिका: प्रोच्यन्तेऽत आह, मिथ्यादृष्टिभिः स्वच्छन्दबुद्धिमतिविकल्पितम्। इहावग्रहे बुद्धिः, अपायधारणे तुमतिः / स्वच्छन्देन स्वाभिप्रायेण तत्त्वतः सर्वज्ञप्रणीतार्थानुसारमन्तरेण बुद्धिमतिभ्यां विकल्पितं स्वच्छन्दबुद्धिमतिविकल्पितं स्वबुद्धिकल्पनाशिल्पिनिर्मितमित्यर्थः। तत्प्रकटनार्थमेवाह- तद्यथा भारतमित्यादि। एतच्च भारतादिकं नाटकादिपर्यन्तं श्रुतं लोकप्रसिद्धिगम्यम् / अथ प्रकारान्तरेण लौकिकश्रुतनिरूपणार्थमाह- अहवा बावत्तरिकलाओ, इत्यादि। तत्र कलनानि, वस्तुपरिज्ञानानि कलाः, ताश्च द्विसप्ततिः समवायाङ्गादिग्रन्थप्रसिद्धाः, चत्वारश्च वेदाः (ग्रन्थाग्रम् 1000) सामवेदऋग्वेदयजुर्वेदाथर्वणवेदलक्षणाः साङ्गोपाङ्गाः। तत्राङ्गानि शिक्षा 1 कल्प 2 व्याकरण 3 च्छन्दो 4 निरुक्त 5 ज्योतिष्कायन 6 लक्षणानि षट्, उपाङ्गानि तव्याख्यानरूपाणि तैः सह वर्तन्त इति साङ्गोपाङ्गाः। से तमित्यादि निगमनम् // 49 // उक्तं नोआगमतो लौकिकं भावश्रुतमथ लोकोत्तरिकं तदेवाह से किंतं लोगोत्तरिय भावसुयं?, लोगुत्तरियं भावसुर्य जंइमं अरहंतेहिं भगवंतेहिं उप्पन्ननाण दसणधरेहिं तीतपडुपन्न मणागत घोडगमुहं सगडभद्दिआउ। 0 सासणं। लोगायतं सट्ठियंतं माढर पुराण वागरणनाडगाइ। 'य' इति न वर्तते। 9 लोइअंनोआगमतो भावसुअं?' इति रूपेण पदानि सन्ति / 0 मतिबुद्धि। 0 ई। ©...मेवेदमाह...10 नोआगमतो', इति पदमधिकम्। 0 अरिहंतेहिं। ®तीयपचुपण्णमणागय...। श्रुतस्य निक्षेपाः। सूत्रम् 49 4 भावश्रुतम्, १आगमतो 2 नोआगमतश्च। १लौकिकम् २लोकोत्तर [2]4.2.1 नोआ० भावश्रुतस्याद्यभेदं लौकिक भारतरामायणादि। सूत्रम् 50 [104.2.2 लोकोत्तरिकम्। द्वादशाङ्ग गणिपिटकम्। // 59 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy