SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ श्रुतस्य निक्षेपाः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 57 // अत्र वृद्धव्याख्या, किल यत्र विषये पट्टसूत्रमुत्पद्यते तत्रारण्ये वननिकुञ्जस्थाने मांसचीडादिरूपस्यामिषस्य पुजाः क्रियन्ते, तेषां च पुञ्जानां पार्श्वतो निम्ना उन्नताश्च सान्तरा बहवः कीलका भूमौ निखायन्ते, तत्र वनान्तरेषु संचरन्तः पतङ्गकीटा: समागत्य मांसाद्यामिषोपभोगलुब्धाः कीलकान्तरेष्वितस्तत: परिभ्रमन्तोलाला: प्रमुञ्चन्ति, ताश्च कीलकेषुलग्नाः परिगृह्यन्ते, इत्येतत्पट्टसूत्रमभिधीयते। अनेनैव क्रमेण मलयविषयोत्पन्नं तदेव मलयम् / इत्थमेव चीनविषये बहिस्तादुत्पन्नं तदेवांशुकम्, इत्थमेव चीनविषयोत्पन्नं तदेव चीनांशुकमभिधीयते / क्षेत्रविशेषाद्धि कीटविशेषस्तद्विशेषात्तु पट्टसूत्रादिव्यपदेश इति भावः। एवं क्वचिद्विषये मनुष्यादिशोणितं गृहीत्वा केनापि योगेन युक्तं भाजनसम्पुटे स्थाप्यते। तत्र च प्रभूताः कृमयः समुत्पद्यन्ते, ते च वाताभिलाषिणोभाजनच्छिट्टैर्निर्गत्यासन्नं पर्यटन्तो यल्लालाजालमभिमुञ्चन्ति तत्कृमिरागंपट्टसूत्रमुच्यते / तच्चरक्तवर्णकृमिसमुत्थत्वात्स्वपरिणामत एव रक्तं भवति / अन्ये त्वभिदधति, यदा तत्र शोणिते कृमयः समुत्पन्ना भवन्ति तदा सकृमिकमेव तन्मलित्वा किट्टिसं परित्यज्य रसो गृह्यते, तत्र च कश्चिद्योगः प्रक्षिप्यते, ततस्तेन यद्रज्यते पट्टसूत्रं तत्कृमिरागमुच्यते / तच्च धौताद्यवस्थासुमनागपि कथञ्चिद्रागंन मुञ्चन्ति, से तमित्यादि निगमनम् ॥४३॥अथ चतुर्थो भेद उच्यते-से किं तमित्यादि। अत्रोत्तरम्, वालयं पंचविहमित्यादि। वालेभ्यः, ऊरणिकादिलोमभ्यो जातं वालजम् / तत्पञ्चविधं प्रज्ञप्तम्, तद्यथा, ऊर्णाया इदमौर्णिकम्, उष्ट्राणामिदमौष्ट्रिकम्, एते द्वे अपि प्रतीते। ये मृगेभ्यो ह्रस्वका मृगाकृतयो बृहत्पुच्छा आटविकजीवविशेषास्तल्लोमनिष्पन्नं मृगलोमिकम् / उन्दुररोमनिष्पन्नं कौतवम् / ऊर्णादीनां यदुद्वरितं किट्टिसं तन्निष्पन्नं सूत्रमपि किट्टिसम्, अथवैतेषामेवोर्णादीनां द्विकादिसंयोगतो निष्पन्नं सूत्रं किट्टिसम्, अथवोक्तशेष श्वादिलोमनिष्पन्नं किट्टिसं से तमित्यादि 0'सान्तराः' पदं न वर्तते। ०षा। सूत्रम् 39-45 [[4]3.2 नोआ० द्रव्यश्रुतम्। | [7] 3.2.3 व्यतिरिक्त द्र०श्रुतम्, पत्रपुस्तक लिखितमथवा अण्डजादिपधविधसूत्रम्। // 57 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy