SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्रुतस्य | श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्ति- युतम्। // 56 // प्रकारान्तरेण निरूपयितुमाह, अहवेत्यादि / अथवा श्रुतं पञ्चविधं प्रज्ञप्तम्, तद्यथा, अंडयमित्यादि। अत्राह ननु श्रुते प्रक्रान्ते निक्षेपाः। सूत्रस्य प्ररूपणमप्रस्तुतम् / सत्यम्, किन्तु प्राकृतशैलीमङ्गीकृत्य श्रुतस्याण्डजादिसूत्रस्य च सूत्तलक्षणेनैकेन शब्देनाभिधीयमानत्वसाम्यादिदमपि प्ररूपयतीत्यदोषः / प्रसङ्गतोऽण्डजादिसूत्रस्वरूपज्ञापनेन शिष्यव्युत्पत्तिश्चैवं कृता भवति / अत एव सूत्रम् 39-45 [[4]3.2 नोआ० भावश्रुते प्रक्रान्ते नामश्रुतादिप्ररूपणमप्रस्तुतमित्याद्यपि प्रेर्यमपास्तम्, तस्यापि शिष्यव्युत्पादनादिफलत्वात्, न च द्रव्यश्रुतम्। भावश्रुतप्रतिपक्षस्य नामश्रुतादेः प्ररूपणमन्तरेण भावश्रुतस्य निर्दोषत्वादिस्वरूपनिश्चयः कर्तुं पार्यते, जे सव्वं जाणइ से एग [7] 3.2.3 व्यतिरिक्त जाणति (आचा० १/३/४/७)त्ति वचनादित्यलं विस्तरेण // 40 // अत्राद्यभेदज्ञापनार्थमाह, सैं किं तमित्यादि / अत्रोत्तरम्, द्र०श्रुतम्, अंडयं हंसगब्भादि त्ति अण्डाज्जातमण्डजम्, हंसः पतङ्गश्चतुरिन्द्रियो जीवविशेषः / गर्भस्तु तन्निर्वर्तितः कोसिकारः। हंसस्य पत्रपुस्तक लिखितमथवा गर्भो हंसगर्भः, तदुत्पन्न सूत्रमण्डजमुच्यते / आदिशब्दः स्वभेदप्रख्यापनपरः / ननु यदि हंसगर्भोत्पन्नं सूत्रमण्डजमुच्यते तर्हि अण्डजादिपञ्चसूत्रे अंडज हंसगादि ति सामानाधिकरण्यं विरुध्यते, हंसगर्भस्य प्रस्तुतसूत्रकारणत्वादेव।सत्यम्, कारणे कार्योपचारात्तद-विधसूत्रम्। विरोधः। कोशिकारभवंसूत्रं वटकसूत्रमिति लोके प्रतीतमण्डजमुच्यत इति हृदयम् / पञ्चेन्द्रियहंसगर्भसम्भवमित्यन्ये / सेत मित्यादि निगमनम् ॥४१॥अथ द्वितीयभेद उच्यते, से किं तमित्यादि / अत्र निर्वचनम्, बोंडयं फलिहमादित्ति / बोंडं वमनीफलं तस्माज्जातं बोण्डजम् / फलिही वमनी, तस्याः फलमपि फलिहं कर्पासाश्रयं कोशकरूपम्, तदिहापि कारणे कार्योपचाराद्वोण्डजंसूत्रमुच्यत इति भावः, से तमित्यादि निगमनम् // 42 // अथ तृतीयभेद उच्यते,से किं तमित्यादि। अत्रोत्तरम्, कीडयं // 56 // पंचविहमित्यादि / कीटाज्जातं कीटजंसूत्रंतत्पञ्चविधं प्रज्ञप्तम्, तद्यथा, पट्टेत्ति पट्टसूत्रम्, मलयम्, अंशुकंचीनांशुकं कृमिरागम्। त्र। 0 से....अत्रोत्तरम्' इत्यादीनि पदानि न वर्तन्ते / 0 काकारः। ॐ यं। ब्भाइ'त्ति / श। 7 च।
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy