________________ आवश्यकस्य निक्षेपाः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 50 // सूत्रम् 29 [२२]आवश्यकस्यैकार्थिकानि। तस्स णं इमे एगट्ठिया णाणाघोसा णाणावंजणा णामधेजा, भवंति, तंजहा- आवस्सयं 1 अवस्सकरणिज्नं 2 धुवणिग्गहो 3 विसोही 4 य / अज्झयणछक्कवग्गो 5 नाओ६ आराहणा 7 मग्गो ८॥२॥समणेण सावएण य अवस्सकायव्वयं हवति जम्हा। अंतो अहोनिसस्स उ तम्हा आवस्सयं नाम ॥३॥से तं आवस्सयं / / सूत्रम् 29 / / ( // 28 // ) तस्स णं इमे, इत्यादि। तस्यावश्यकस्यामूनि वक्ष्यमाणान्येकार्थिकानि परमार्थत एकार्थविषयाणि नानाघोषाणिपृथग्भिन्नोदात्तादिस्वराणि, नानाव्यञ्जनानि पृथग्भिन्नककाराद्यक्षराणि, नामधेयानि पर्यायध्वनयो भवन्ति / तद्यथा, आवस्सयं गाहा। व्याख्या, श्रमणादिभिरवश्यं क्रियत इतिनिपातनादावश्यकम् / अथवा ज्ञानादिगुणा मोक्षोवा, आ, समन्ताद्वश्यः क्रियतेऽनेनेत्यावश्यकम्। अथवा आ, समन्ताद्, वश्या इन्द्रियकषायादिभावशत्रवो येषां ते तथा, तैरेव क्रियते यत्तदावश्यकम्, अथवा समग्रस्यापि गुणग्रामस्यावासकम्, इत्यावासकम्, इत्याद्यपरमपि स्वधिया वाच्यम् / पूर्वमपि च व्युत्पादितमिदं तथा मुमुक्षुभिर्नियमानुष्ठेयत्वादवश्यकरणीयम् / तथा ध्रुवनिग्रहइत्यत्रानादित्वात् क्वचिदपर्यवसितत्वाच्च ध्रुवंकर्म तत्फलभूतः संसारो वा, तस्य निग्रहहेतुत्वान्निग्रहो ध्रुवनिग्रहः। तथा कर्ममलिनस्यात्मनो विशुद्धिहेतुत्वा द्विशुद्धिः। तथा सामायिकादिषडध्ययनकलापात्मकत्वादध्ययनषड्वर्गः। तथाभिप्रेतार्थसिद्धेः सम्यगुपायत्वान्यायः, अथवा जीवकर्मसम्बन्धापनयनान्यायः। अयमभिप्रायः यथा कारणिकैदृष्टो न्यायो द्वयोरर्थिप्रत्यर्थिनोभूमिद्रव्यादिसम्बन्धं चिरकालीनमप्यपनयत्येवं जीवकर्मणोरनादिकालीनमप्याश्रयाश्रयिभावसम्बन्धमपनयतीत्यावश्यकमपि न्यायउच्यते। तथा मोक्षाराधनाहेतुत्वादाराधना। तथा मोक्षपुरप्रापकत्वादेव मार्ग इति गाथार्थः॥२॥ उक्तगाथाया आद्यपदं सूत्रकार एव व्युत्पादयन्नाह- समणेण गाहा। 7 // 1 // 7 // 2 // O ट्क / // 50