SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 49 // आवश्यकस्य निक्षेपाः। सूत्रम् 28 नोआ०भावा० [[21] 4.2.3 पासकः। श्राविका श्रमणोपासिका, वाशब्दाः समुच्चयार्थाः। तस्मिन्नेवावश्यके चित्तंसामान्योपयोगरूपं यस्येति स तच्चित्तः। तस्मिन्नेव मनोविशेषोपयोगरूपं यस्य स तन्मनाः। तत्रैव लेश्या शुभपरिणामरूपा यस्येति स तल्लेश्यः। तथा तदध्यवसितः, इहाध्यवसायोऽध्यवसितम्। ततश्च तच्चित्तादिभावयुक्तस्य सतस्तस्मिन्नेवावश्यकेऽध्यवसितं क्रियासम्पादनविषयमस्येति तदध्यवसितः। तथा तत्तीव्राध्यवसान:(यः), तस्मिन्नेवावश्यके तीव्रम्, प्रारम्भकालादारभ्य प्रतिक्षणं प्रकर्षयायि प्रयत्नविशेषलक्षणमध्यवसानं यस्य स तथा। तथा तदर्थोपयुक्त: तस्यावश्यकस्यार्थस्तदर्थस्तस्मिन्नुपयुक्तस्तदर्थोपयुक्तः प्रशस्ततरसंवेगविशुद्ध्यमानः, तस्मिन्नेव प्रतिसूत्रं प्रतिक्रियंचार्थेषूपयुक्त इत्यर्थः। तथा तदर्पितकरण:करणानि तत्साधकतमानि देह रजोहरण मुखवस्त्रिकादीनि तस्मिनावश्यके यथोचितव्यापारनियोगेनार्पितानि नियुक्तानि तानि येन सतथा, सम्यग्यथास्थानन्यस्तोपकरण इत्यर्थः / तथा तद्भावनाभावित: तस्यावश्यकस्य भावना, अव्यवच्छिन्नपूर्वपूर्वतरसंस्कारस्य पुनः पुनस्तदनुष्ठानरूपा तया भावितः, अङ्गाङ्गीभावेन परिणतावश्यकानुष्ठानपरिणामस्तद्भावनाभावितः। तदेव यथोक्तप्रकारेण प्रस्तुतव्यतिरेकतोऽन्यत्र कुत्रचिन्मनोऽकुर्वन्नुपलक्षणत्वाद्वाचं कायंचान्यत्राकुर्वन्, एकार्थिकानि वा विशेषणान्येतानि प्रस्तुतोपयोगप्रकर्षप्रतिपादनपराणि, अमूनि च लिङ्गविपरिणामतः श्रमणीश्राविकयोरपि योज्यानि / तस्मात्तच्चित्तादिविशेषणविशिष्टिाः श्रमणादय उभयकालमुभयसन्ध्यं यदावश्यकं कुर्वन्ति तल्लोकोत्तरिकम्, भावमाश्रित्य भावश्चासावावश्यकं चेति वा भावावश्यकम्। अत्राप्यवश्यंकरणादावश्यकत्वंतदुपयोगपरिणामस्य च सद्भावाद्भावत्वम् मुखवस्त्रिकाप्रत्युपेक्षणरजोहरणव्यापारादिक्रियालक्षणदेशस्यानागमत्वानोआगमत्वं भावनीयम्। से तमित्यादि निगमनम् // 28 // तदेवं स्वरूपत उक्तं भावावश्यकम्, अनेनैव चात्राधिकार इत्यतो नानादेशजविनेयानुग्रहार्थं तस्यैव पर्यायाभिधानार्थमाह // 49 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy