SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ आवश्यकस्य निक्षेपाः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 45 // सूत्रम् 23 [16]4 भावावश्यकम्। तस्य च द्वौ भेदौ, १.आगमतो २.नोआगमतश्च। नगरलोकश्च नाशितस्तथा त्वमप्यस्याविधिप्रवृत्तस्य प्रशंसां कुर्वन्नात्मानं समस्तगच्छं चोच्छेदयसि / यदि पुनरेनमेकं शिक्षयसि तदा तथाविधनृप इव सपरिकरो निरपायतामनुभवसि / तथाहि, अन्येन केनचिद्राज्ञा तथैव कुर्वन्कश्चिद्वणिगाकर्णितः / ततो नगरदाहापायदर्शिना क्षितीशेनारण्यं गत्वा किमित्थं न करोषीत्यादिवचोभिस्तिरस्कृत्य दण्डितो निष्कासितश्च / एवं त्वमपीत्यादि। उपनयो गतार्थः / इत्यादि बहुप्रकारं भणितो यावदसौ तत्प्रशंसातो न निवर्तते तावत्तेन गीतार्थसाधुना शेषसाधवोऽभिहिताः, एष गणाधिपो महानिर्धर्मतास्पदमगीतार्थो यदि न परित्यज्यते तदा भवतां महतेऽनर्थाय प्रभवतीति। तदेवं तत्साध्वाभासावश्यकप्रकारं सर्वं लोकोत्तरिकं द्रव्यावश्यकमिति / निगमयन्नाह-से तमित्यादि। तदेतल्लोकोत्तरिक द्रव्यावश्यकम् / एतद्भणने च ज्ञशरीरभव्यशरीरव्यतिरिक्तं त्रिविधमपि द्रव्यावश्यकं समर्थितं भवत्यतस्तदपि निगमयति-से तमित्यादि / एतत्समर्थनेच नोआगमतो द्रव्यावश्यकस्य सप्रभेदस्य समर्थितत्वात्तदपि निगमयति-से तं नोआगमतो, इत्यादि। एतत्समर्थने च यत्प्रक्रान्तं द्रव्यावश्यकं तत्सोत्तरभेदमप्यवसितमतो निगमयति-से तं दव्वावस्सयमिति / तदेतद्व्यावश्यक समर्थितमित्यर्थः॥२२॥उक्तं सप्रपञ्चंद्रव्यावश्यकम्, साम्प्रतमवसरायातभावावश्यकनिरूपणार्थमाह से किंतं भावावस्सयं?,२ दुविहं पण्णत्तं, तंजहा-आगमतो य१णोआगमतो य २॥सूत्रम् 23 // ( // 22 // ) से किं तमित्यादि। अथ किं तद्भावावश्यकमित्यत्र निर्वचनमाह- भावावस्सयं दुविहमित्यादि / वक्तृविवक्षितपरिणामस्य भवनं भावः / उक्तंच, भावो विवक्षितक्रियाऽनुभूतियुक्तो हि वैसमाख्यातः / सर्वज्ञैरिन्द्रादिवदिहेन्दनाक्रियाऽनुभवात् // 1 // व्याख्या, वक्तुर्विवक्षितक्रियायाः, विवक्षितपरिणामस्येन्दनादेरनुभवनमनुभूतिस्तया युक्तो योऽर्थः, स भावतद्वतोरभेदोपचाराद्भाव: सर्वज्ञैः समाख्यातः।निदर्शनमाह- इन्द्रादिवदित्यादि / यथेन्दनादिक्रियानुभवात्परमैश्वर्यादिपरिणामेन परिणतत्वादिन्द्रादि // 4
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy