SearchBrowseAboutContactDonate
Page Preview
Page 65
Loading...
Download File
Download File
Page Text
________________ आवश्यकस्य निक्षेपाः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 43 // सूत्रम् 22 नोआ० द्रव्या० |3.2.3 व्यतिरिक्त द्रव्यावश्यकम्। [15]3.2.3.3| लोकोत्तरिकम् / दव्वावस्सयं / सेतं जाणगसरीरभवियसरीरवइरित्तं दव्वावस्सयं, सेतं नोआगमतो दव्वावस्सयं, सेतंदव्वावसयं॥ सूत्रम 22 // // 21 // ) से किं तमित्यादि। अथ किं तल्लोकोत्तरिकं द्रव्यावश्यकम्? अत्र निर्वचनमाह लोउत्तरियं दव्वावसयं जे इमइत्यादि।लोकस्योत्तरा:प्रधाना: लोकोत्तराः साधवः / अथवा लोकस्योत्तरं प्रधानं लोकोत्तरंजिनशासनम्, तेषु तस्मिन्वा भवं लोकोत्तरिकम्, द्रव्यावश्यकमिति व्याख्यातमेव / किं पुनस्तदित्याह, जे इमइत्यादि। य एते श्रमणगुणमुक्तयोगित्वादिविशेषणविशिष्टाः साध्वाभासा जिनानामनाज्ञया स्वच्छन्दं विहृत्योभयकालमावश्यकाय प्रतिक्रमणायोपतिष्ठन्तेतत्तेषां प्रतिक्रमणानुष्ठानं लोकोत्तरिक्तं द्रव्यावश्यकमिति समुदायार्थः / इदानीमवयवार्थ उच्यते, तत्र श्रमणाःसाधवस्तेषां गुणा मूलोत्तरगुणरूपाः। तत्र जीववधविरत्यादयो मूलगुणाः पिण्डविशुद्ध्यादयस्तूत्तरगुणाः। तेषु मुक्तो योगो व्यापारो यैस्ते, सर्वधनादेराकृतिगणत्वा, च्छ्रमणगुण& मुक्तयोगिनः। एते जीववधादिविरतिमुक्तव्यापारा अपि मनसा कदाचित्सानुकम्पा अपि स्युरित्याह, षट्सु कायेषु पृथिव्यादिषु विषये निर्गतापगतानुकम्पा, मन:सार्द्रता येभ्यस्ते तथा। निरनुकम्पताचिह्नमेवाह- हया इव, तुरगा इवोद्दामाः, चरणनिपातजीवोपमईनिरपेक्षत्वातचारिण इत्यर्थः / किमित्येवंभूतास्त इत्याह, यतो गजा इव, दुष्टद्विरदा इव निरङ्कशा गुर्वाज्ञाव्यतिक्रमचारिण इत्यर्थः / अत एव घट्ठत्ति, येषांजड़े श्लक्ष्णीकरणार्थं फेनादिना घृष्टे भवतस्तेऽवयवावयविनोरभेदोपचाराद्धष्ट तथा मट्ठत्ति, तैलोदकादिना येषां केशाः शरीरं वा मृष्टं ते तथैव मृष्टाः। अथवा केशादिषु मृष्टं विद्यते येषां मृष्टवन्तः, वन्तु- प्रत्ययलोपान्मृष्टाः, तथा तुप्पोट्ठत्ति तुप्रा म्रक्षिता, मदनेन वा वेष्टिताः शीतरक्षादिनिमित्तमोष्ठा येषां ते तुप्रोष्ठाः। तथा मल ®'त्यक्त:'-इति प्रत्यन्तरे। 0 वत्प्र / // 43 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy