________________ आवश्यकस्य श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्ति युतम्। | // 41 // से किं तमित्यादि। अथ किं तत्कुप्रावचनिकं द्रव्यावश्यकं? अत्र निर्वचनम्, कुप्पावयणियं दवावस्सयं जे इम इत्यादि। कुत्सितं प्रवचनं येषां ते कुप्रवचनास्तेषामिदं कुप्रावचनिकं द्रव्यावश्यकम् / किं पुनस्तदित्याह- जे इमे इत्यादि। य एते / निक्षेपाः। चरकचीरिकादयः प्रभातसमय इन्द्रस्कन्दादेरुपलेपनादि कुर्वन्ति तत्कुप्रावचनिकं द्रव्यावश्यकमिति समुदायार्थः॥ तत्र सूत्रम् 21 नोआ० द्रव्या० धाटिवाहकाः सन्तो ये भिक्षां चरन्ति ते चरकाः, अथवा ये भुञ्जानाश्चरन्ति ते चरकाः। रथ्यापतितचीरपरिधानाश्चीरिकाः, अथवा येषां चीरमयमेव सर्वमुपकरणं ते चीरिकाः। चर्मपरिधानाश्चर्मखण्डिकाः, अथवा चर्ममयं सर्वमेवोपकरणं येषां ते व्यतिरिक्त द्रव्यावश्यकम्। चर्मखण्डिकाः। ये भिक्षामेव भुञ्जतेन तुस्वपरिगृहीतगोदुग्धादिकं ते भिक्षोण्डाः, सुगतशासनस्था इत्यन्ये / पाण्डुराङ्गा भस्मोद्ध [14]3.2.3.2/ लितगात्राः, विचित्रपादपतनादिशिक्षाकलापयुक्तवराटकमालिकादिचर्चितवृषभकोपायत: कणभिक्षाग्राहिणो गोतमा:, कुप्रावचनिकम्। गोचर्यानुकारिणो गोव्रतिकाः। ते हि वयमपि किल तिर्यक्षु वसाम इति भावनां भावयन्तो गोभिर्निर्गच्छन्तीभिः सह निर्गच्छन्ति स्थिताभिस्तिष्ठन्त्यासीनाभिरुपविशन्ति भुञ्जानाभिस्तद्वदेव तृणपत्रपुष्पफलादिभुञ्जन्ति, तदुक्तम्, गावीहिं समं निग्गमपवेसठाणासणाइ पकरेंति। भुंजंति जहा गावी तिरिक्खवासं विभावंता॥१॥ गृहस्थधर्म एव श्रेयानित्यभिसन्धाय तद्यथोक्तचारिणो गृहिधर्माः, तथा च तदनुसारिणां वचः, गृहाश्रमसमो धर्मो, न भूतो न भविष्यति। तं पालयन्ति ये धीराः, क्लीबा: पाषण्डमाश्रिताः // 1 // इति / याज्ञवल्क्यप्रभृतिऋषिप्रणीतधर्मसंहिताश्चिन्तयन्ति ताभिश्च व्यवहरन्तीति धर्मचिन्तकाः। देवता क्षितीश मातापितृ तिर्यगादीनामविरोधेन विनयकारित्वादविरुद्धाः, वैनयिकाः। पुण्यपापपरलोकाद्यनभ्युपगमपरा अक्रियावादिनो विरुद्धाः।। सर्वपाषण्डिभिः सह विरुद्धाचारित्वाद् / अत्राह- ननु यद्येते पुण्याद्यनभ्युपगमपराः कथं तद्देषां वक्ष्यमाणमिन्द्राद्युपलेपनं ®गोभिः सम निर्गमप्रवेशस्थानासनादि प्रकुर्वन्ति। भुञ्जते यथा गाव: तिर्यग्वास विभावयन्तः॥ 1 // 0 प्रपालयन्ति। 0(ये) ते' इत्यधिकम् / // 41 //