________________ आवश्यकस्य निक्षेपाः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 40 // नोआ० द्रव्या० मण्डित मुद्यानम्। भारतादिकथाविनोदेन यत्र लोकस्तिष्ठति सा सभा। शेषं प्रतीतम् / अत्राह- ननु राजादिभिः प्रभातेऽवश्यं क्रियत इति व्युत्पत्तिमात्रेणावश्यकत्वं भवतु मुखधावनादीनां द्रव्यत्वं तु कथममीषाम्? विवक्षितभावस्य हि कारणं द्रव्यं भवति, भूतस्य भाविनो वा भावस्य हीत्यादिवचनात्, न च राजादिभिः क्रियमाणानि मुखधावनादीनि भावावश्यककारणं सूत्रम् 21 भवन्ति / सत्यम्, किन्तु भूतस्य भाविनो वेत्याद्येव द्रव्यलक्षणं न मन्तव्यम् / किंतर्हि? अप्पाहण्णेवि दव्वसद्दोत्ती (पञ्चाशके 6-2 13) ति वचनादप्रधानवाचकोऽपि द्रव्यशब्दोऽवगन्तव्यः / अप्रधानानि च मोक्षकारणभावावश्यकापेक्षया संसारकारणानि / व्यतिरिक्त द्रव्यावश्यकम्। राजादिमुखधावनादीनि / ततश्च द्रव्यभूतान्यप्रधानभूतान्यावश्यकानि द्रव्यावश्यकान्येतानीत्यदोषः। नोआगमत्वं चेहाप्या [14]3.2.3.2 गमाभावानोशब्दस्य च सर्वनिषेधवचनत्वादित्यलं विस्तरेण / निगमयन्नाह- सेतं लोइयमित्यादि। तदेतज्ज्ञशरीरभव्यशरीरव्यतिरिक्तं लौकिकं द्रव्यावश्यकमित्यर्थः॥ 20 // उक्तो नोआगमतो द्रव्यावश्यकान्तर्गत ज्ञशरीरभव्यशरीरव्यतिरिक्तद्रव्यावश्यक प्रथमो भेदः / अथ द्वितीयभेदनिरूपणार्थमाह- . . से किंतं कुप्पावयणियं दव्वावस्सयं?, २जे इमेचरग चीरिग चम्मखंडियभिच्छंडगपंडरंग गोतम गोव्वतिय गिहिधम्म धम्मचिंतग अविरुद्ध विरुद्ध वुड सावगप्पभितयो पासंडत्था कल्लं पाउप्पभायाए रयणीए जाव तेयसा जलते इंदस्स वा खंदस्स वा रुद्दस्स वा सिवस्स वा वेसमणस्स वा देवस्स वा नागस्स वा जक्खस्स वा भूयस्स वा मुगुदस्स वा अजाए वा कोट्टकिरियाए वा उवलेवण संमजणाऽऽवरिसण धूव पुष्फ गंध मल्लाइयाइंदव्वावस्सयाइं करेंति, सेतं कुप्पावयणियंदव्वावस्सयं।सूत्रम् 21 // ( // 20 // ) / ®अप्पाहण्णे वि इहं कत्थइ दिह्रो उ दव्वसद्दो त्ति / अंगारमद्दोजह दव्वायरिओ सयाऽभव्वो॥ (पञ्चाशक 6-13) 0 (त्थी)' इत्यधिकम् / 0 भिक्खोंडगपंडुरंग। ७'दुग्गाए वे' त्यधिकम् / 7 समजणआवरिसण / // 40 //