________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 39 // 3.2.3 द्रव्यावश्यकम्। स्थामाह। तदनन्तरमुट्ठिए सूरिएत्यभ्युद्गत आदित्ये, कथम्भूत इत्याह- रक्ताशोकप्रकाश किंशुकशुकमुख गुञ्जार्धरागसदृशे रक्ताशोक आवश्यकस्य प्रकाशस्य किंशुकस्य- पुष्पितपलाशस्य शुकमुखस्य गुजार्धस्य च रागेण सदृशो यः स तथा, तस्मिन्, आरक्त इत्यर्थः / निक्षेपाः। तथा कमलाकरनलिनीषण्डबोधके कमलानामाकरा उत्पत्तिभूमयो हृदादिजलाशयविशेषास्तेषु यानि नलिनीखण्डानि तेषांक सूत्रम् 20 बोधको यः स तथा, तस्मिन् / पुनः किंभूते तस्मिन्नित्याह- सहस्ररश्मौ, दिनं करोतीति दिनकरस्तस्मिन्, तेजसा ज्वलतिसति / व्यतिरिक्त तत्रैवैते भावा: सर्वेऽपि सन्तीति ज्ञापनार्थं सूर्यस्य विशेषणबहुत्वम्। अनेन चोत्तरोत्तरकालभाविनावश्यककरणकालविशेषण [[13]3.2.3.1 कलापेन प्रकृष्टमध्यमजघन्योद्यमवतां सत्त्वानां तं तमावश्यककरणसमयमाह / तथाहि, केचित्प्रकृष्टोद्यमिन: किञ्चित्प्रकाश लौकिकम्। मानायांरजन्यां मुखधावनाद्यावश्यकं कुर्वन्ति।मध्यमोद्यमिनस्तु तस्यामेव सुविमलायामरुणप्रभावसरे वा, जघन्योद्यमिनस्तु समुद्गते सवितरीति। मुहधोवणेत्यादि। मुखधावनं च दन्तप्रक्षालनं च तैलं च फणिहश्च सिद्धार्थश्च हरितालिका चादर्शश्च धूपश्च पुष्पाणि च माल्यं च गन्धाश्च ताम्बूलं च वस्त्राणि च तान्यादिः (दिनि?) येषां स्नानाभरणपरिधानादीनां तानि तथा। तत्र फणिहः, कडूतकः,तं मस्तकादौ व्यापारयन्ति / सिद्धार्था:सर्षपाः हरितालिकादूर्वा, एतद्यं मङ्गलार्थं शिरसि प्रक्षिपन्त्यादर्श तु मुखादि निरीक्षन्ते, धूपेन तु वस्त्रादि धूपयन्ति ।अग्रथितानि पुष्पाणि, तान्येव ग्रथितानि माल्यमथवा विकसितानि पुष्पाणि, तान्येवाविकसितानि माल्यमेतेषां च मस्तकादिषूपयोगः। शेषं स्वरूपत उपयोगतश्च प्रतीतमेवैतानि द्रव्यावश्यकानि कृत्वा तत: पश्चाद्राजकुलादौ गच्छन्ति / अत्र रमणीयतातिशयेन स्त्रीपुरुषमिथुनानि यत्रारमन्तिस विविधपुष्पजात्युपशोभित आरामः। वस्त्राभरणादिसमलतविग्रहाः सन्निहिताशनाद्याहारा मदनोत्सवादिषु क्रीडार्थ लोका उद्यान्ति यत्र तच्चम्पकादितरुपण्ड®ख। // 39 //