SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ आवश्यकस्य निक्षेपाः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 38 // सूत्रम् 20 3.2.3 व्यतिरिक्त द्रव्यावश्यकम्।। [13]3.2.3.1| लौकिकम्।। व्यतिरिक्तं द्रव्यावश्यकमिति समुदायार्थः। तत्र राजा, चक्रवर्ती वासुदेवो बलदेवो महामण्डलिकश्च / ईश्वरो युवराजःसामान्यमण्डलिकोऽमात्यश्च / अन्ये तु व्याचक्षते, अणिमाद्यष्टविधैश्वर्ययुक्तेश्वरः। परितुष्टनरपतिप्रदत्तरत्नालङ्कतसौवर्णपट्टविभूषितशिरास्तलवरः, यस्य पार्श्वत आसन्नमपरं ग्रामनगरादिकं नास्ति तत्सर्वतश्छिन्नजनाश्रयविशेषरूपं मडम्बमुच्यते, तस्याधिपतिर्माडम्बिकः। कतिपयकुटुम्बप्रभुः कौटुम्बिकः। इभः हस्ती, तत्प्रमाणं द्रव्यमर्हतीतीभ्यः। यस्य सत्कपुञ्जीकृतहिरण्यरत्नादिद्रव्येणान्तरितो हस्त्यपि न दृश्यते सः, अधिकतरद्रव्यो वेभ्य इत्यर्थः। श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गः पुरज्येष्ठो वणिग्विशेषः श्रेष्ठी। हस्त्यश्वरथपदातिसमुदायलक्षणाया: सेनायाः प्रभुः सेनापतिः, गणिमं धरिमं मेजं पारिच्छेज्जंच दव्वजायं तु / घेत्तूणं लाभत्थं वच्चति जो अन्नदेसं तु॥१॥ निवबहुमओ पसिद्धो दीणाणाहाण वच्छलो पंथे। सो सत्थवाहनाम धणोव्व लोए समुव्वहई॥२॥ एतल्लक्षणयुक्तः सार्थवाहः। प्रभृतिग्रहणेन शेषप्राकृतजनपरिग्रहः / कल्लं पाउप्पभायाए, इत्यादि। कल्यमिति विभक्तिव्यत्ययात्सामान्येन प्रभाते, प्रभातस्यैव विशेषावस्था: प्राह, पाउइत्यादि। प्रादुः प्राकाश्ये / ततश्च प्रकाशप्रभातायां रजन्यां किञ्चिदुपलभ्यमानप्रकाशायामिति भावः। तदनन्तरं सुविमलायांतस्यामेव किञ्चित्परिस्फुटतरप्रकाशायाम्, अथशब्द आनन्तर्ये / तदनन्तरं पाण्डुरे प्रभाते।कथम्भूत इत्याह, फुल्लोत्पल-कमल-कोमलोन्मीलितेफुल्लं विकसितं तच्च तदुत्पलंचफुल्लोत्पलं कमल: हरिणविशेषः, फुल्लोत्पलं च कमलश्च फुल्लोत्पलकमलौ तयोः कोमलमकठोरं दलानां नयनयोश्चोन्मीलितमुन्मीलनं यत्र प्रभाते तत्तथा / अनेन च प्रागुक्तायाः सुविमलताया वक्ष्यमाणसूर्योदयस्य चान्तरालभाविनी पूर्वस्यां दिश्यरुणप्रभाव गण्यं धार्य मेयं परिच्छेद्यं च द्रव्यजातं तु / गृहीत्वा लाभार्थं व्रजति योऽन्यदेशं तु // 1 // नृपबहुमतः प्रसिद्धो दीनानाथेषु वत्सलः पथि / स सार्थवाहनाम धन्य इव लोके समुद्बहति // 2 // // 38 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy