SearchBrowseAboutContactDonate
Page Preview
Page 58
Loading...
Download File
Download File
Page Text
________________ आवश्यकस्य निक्षेपाः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 36 // सूत्रम् 18 [[11] नोआ० द्रव्यावश्यकस्य 3.2.2 भव्यशरीर द्रव्यावश्यकम्। भव्यशरीर द्रव्यावश्यकम् / किं पुनस्तदित्यत्रोच्यते, यो जीवोयोनिजन्मत्वनिष्क्रान्तोऽनेनैव शरीरसमुच्छ्रयेणात्तेन जिनोपदिष्टेन भावेनावश्यकमित्येतत्पदमागामिनि काले शिक्षिष्यते न तावच्छिक्षते तज्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यावश्यकमिति समुदायार्थः। साम्प्रतमवयवार्थ उच्यते-तत्र यः कश्चिज्जीवोजन्तुर्योन्यायोषिदवाच्यदेशलक्षणायाः, परिपूर्णसमस्तदेहः, जन्मत्वेन जन्मसमयेन निष्क्रान्तोन पुनरामगर्भावस्थ एव पतितो योनिजन्मत्वनिष्क्रान्तः। अनेनैव शरीरमेव पुद्गलसङ्घातत्वादुत्पत्तिसमयादारभ्य प्रतिसमयं समुत्सर्पणाद्वा समुच्छ्रयस्तेनात्तेनादत्तेन वा गृहीतेन प्राकृतशैलीवशादात्मीयेन वा जिनोपदिष्टेनेत्यादि पूर्ववत् / सेयकालेत्ति छान्दसत्वादागामिनि काले शिक्षिष्यतेऽध्येष्यते, साम्प्रतं तु न तावदद्यापि शिक्षते, तज्जीवाधिष्ठितं शरीरं भव्यशरीरद्रव्यावश्यकम् / नोआगमत्वं चात्राप्यागमाभावमाश्रित्य मन्तव्यं तदानीं तत्र वपुष्यागमाभावात् / नोशब्दस्य चात्रापि सर्वनिषेधवचनत्वादिति / अत्राह- नन्वावश्यकस्य कारणं द्रव्यावश्यकमुच्यते, यदि त्वत्र वपुष्यागमाभावः कथं तर्हि तस्य तं प्रति कारणत्वम् ?, न हि कार्याभावे वस्तुनः कारणत्वं युज्यते, अतिप्रसङ्गादतः कथमस्य द्रव्यावश्यकता? सत्यम्, किं तु भविष्यत्पर्यायस्येदानीमपि योऽस्तित्वमुपचरति नयस्तदनुवृत्त्यास्य द्रव्यावश्यकत्वमुच्यते / तथा च तदनुसारिणः पठन्ति, भाविनि भूतवदुपचार (कातन्त्र परि०) इति / अत्रार्थे दृष्टान्तं दिदर्शयिषुः प्रश्नं कारयति, यथा कोऽत्रदृष्टान्त, इति / निर्वचनमाह, यथायं मधुकुम्भो भविष्यतीत्यादि / एतदुक्तं भवति, यथा मधुनि घृते वा प्रक्षेप्नुमिष्टे तदाधारत्वपर्याये भविष्यत्यपि लोकेऽयं मधुकुम्भोघृतकुम्भो वेत्यादिव्यपदेशो दृश्यते। तथात्राप्यवश्यककारणत्वपर्याये भविष्यत्यपि तदस्तित्वपरनयानुवृत्त्या द्रव्या®त्वात्। // 36 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy