SearchBrowseAboutContactDonate
Page Preview
Page 57
Loading...
Download File
Download File
Page Text
________________ आवश्यकस्य निक्षेपाः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 35 // | सूत्रम् 18 [11] नोआ० द्रव्यावश्यकस्य 3.2.2 भव्यशरीर द्रव्यावश्यकम्। ग्रहणप्ररूपणादीनांजीवधर्मत्वेन शरीरस्याघटमानत्वात् / सत्यम्, किन्तु भूतपूर्वगत्या जीवशरीरयोरभेदोपचारादित्थमुपन्यास इत्यदोषः / पुनरप्याह, ननु यद्यपि तच्छरीरकं शय्यादिगतं दृष्ट्वा पूर्वोक्तवक्तारो भवन्ति, तथापि कथं (तस्य) द्रव्यावश्यकता? यत आवश्यकस्य द्रव्यावश्यकं भवितुमर्हति, भूतस्य भाविनो वेत्यादिपूर्वोक्तवचनात्कारणंचागमस्य चेतनाधिष्ठितमेव शरीरं न त्विदं चेतनारहितत्वात्तस्यापि तत्कारणत्वेऽतिप्रसङ्गात् / सत्यम्, किन्त्वतीतपर्यायानुवृत्त्यभ्युपगमपरनयानुवृत्त्यातीतमावश्यककारणत्वपर्यायमपेक्ष्य द्रव्यावश्यकतास्योच्यत इत्यदोषः / स्यादेवम्, यद्यत्रार्थे कश्चिद्दृष्टान्तः स्यादिति विकल्प्य पृच्छति, यथा कोऽत्र दृष्टान्तः? इति पृष्टे सत्याह- यथायं घृतकुम्भ आसीत्, अयं मधुकुम्भ आसीदित्यादि। एतदुक्तं भवति, यथा मधुनि घृते वा प्रक्षिप्यापनीते तदाधारत्वपर्यायेऽतिक्रान्तेऽप्ययं मधुकुम्भोऽयं च घृतकुम्भ इति व्यपदेशो लोके प्रवर्तते / तथावश्यककारणत्वपर्यायेऽतिक्रान्तेऽप्यतीतपर्यायानुवृत्त्या द्रव्यावश्यकमिदमुच्यत इति भावः / निगमयन्नाह- से तमित्यादि, तदेतज्ज्ञशरीरद्रव्यावश्यकम् // 17 // उक्तो नोआगमतो द्रव्यावश्यकप्रथमभेदः / अथ द्वितीयभेदनिरूपणार्थमाह__ से किं तं भवियसरीरदव्वावस्सयं?, 2 जे जीवे जोणिजम्मणनिक्खंते इमेणं चेव सरीरसमुस्सएणं आदत्तएणं जिणोवदिटेणं भावेणं आवस्सएत्तिपयंसेयकाले सिक्खिस्सइन ताव सिक्खइ, जहा को दिटुंतो? अयं महुकुंभे भविस्सइ, अयंघयकुंभे भविस्सइ, सेत्तं भवियसरीरदव्वावस्सयं ॥सूत्रम् 18 // ( // 17 // ) से किं तमित्यादि।अथ किं तद्भव्यशरीरद्रव्यावश्यकमिति प्रश्ने सत्याह- भवियसरीरदव्वावस्सयं जे जीवेत्यादि / विवक्षितपर्यायेण भविष्यतीति भव्यो विवक्षितपर्यायाहस्तद्योग्य इत्यर्थः। तस्य शरीरम्, तदेव भाविभावावश्यककारणत्वाइव्यावश्यक (r) आत्तएणं सरीरसमुस्सएणं जिणोवदिटेणं। // 35 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy