________________ | श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | // 34 // वश्यकत्वंन विरुध्यते। लेष्वादिदर्शने पुनर्नेत्थम्भूतःप्रत्ययः कस्यापि समुत्पद्यत इति न तेषां तत्प्रसङ्गः। तेनैव करचरणोरुग्री- आवश्यकस्य वादिपरिणामेनानन्तरमेवावश्यककारणत्वेन व्यापृतत्वात्तदेव तथाविधप्रत्ययजनकं द्रव्यावश्यकम्, न लेष्ट्रादय इति भाव निक्षेपाः। इति समुदायार्थः / इदानीमवयवार्थ उच्यते / तत्र शय्या, महती सर्वाङ्गप्रमाणा, तां गतं शय्यागतं शय्यास्थितमित्यर्थः। सूत्रम् 17 [10] नोआ० संस्तारोलघुकोऽर्धतृतीयहस्तमानस्तंगतंतत्रस्थमित्यर्थः / यत्र साधवस्तपःपरिकर्मितशरीराः स्वयमेव गत्वा भक्तपरिज्ञाद्यनशनं द्रव्यावश्यकस्य प्रतिपन्नपूर्वाः प्रतिपद्यन्ते प्रतिपत्स्यन्ते च तत्सिद्धशिलातलमुच्यते। क्षेत्रगुणतो यथाभद्रकदेवतागुणतो वा साधूनामाराधनाः 3.2.1 ज्ञशरीरसिद्ध्यन्ति तत्रेतिकृत्वा / अन्ये तुव्याचक्षते, यत्र महर्षिः कश्चित्सिद्धस्तत्सिद्धशिलातलम्, तद्गतम्, तत्रस्थितं सिद्धशिलातल द्रव्यावश्यकम्। गतम् / इह निसीहियागयं वेत्यादीन्यपि पदानि वाचनान्तरे दृश्यन्ते तानि च सुगमत्वात्स्वयमेव भावनीयानि / नवरं नैषेधिकीशबपरिस्थापनभूमिः / अपरं चात्रान्तरे पासित्ता णं कोई भणिज्जत्ति ग्रन्थः क्वचिद् दृश्यते / स च समुदायार्थकथनावसरे योजित एव, यत्र तु न दृश्यते तत्राध्याहारो द्रष्टव्यः / अहोशब्दो दैन्यविस्मयामन्त्रणेषु वर्तते, स चेह त्रिष्वपि घटते / तथाहि, अनित्यं शरीरमिति दैन्ये, आवश्यकं ज्ञातमिति विस्मये, अन्यं पार्श्वस्थितमामन्त्रयमाणस्यामन्त्रणे। अनेन प्रत्यक्षतया दृश्यमानेन शरीरमेव पुद्गलसङ्घातत्वात्समुच्छ्रयस्तेन, जिनदृष्टेनतीर्थङ्कराभिमतेन, भावेन कर्मनिर्जरणाभिप्रायेण, अथवा भावेन, तदा-8 वरणकर्मक्षयक्षयोपशमलक्षणेनावश्यकपदाभिधेयंशास्त्रं आघवियंति प्राकृतशैल्या छान्दसत्वाच्च गुरोः सकाशादागृहीतम्, प्रज्ञापितं सामान्यतो विनेयेभ्यः कथितं प्ररूपितं तेभ्य एव प्रतिसूत्रमर्थकथनतः, दर्शितं प्रत्युपेक्षणादिक्रियादर्शनतः, इयं क्रियैभिरक्षरैरत्रोपात्ता, इत्थं च क्रियत इत्येवं विनेयेभ्यः प्रकटितमिति भावः, निदर्शितं कथञ्चिदगृह्णत: परयानुकम्पया निश्चयेन पुन: पुन: दर्शितमुपदर्शितं सर्वनययुक्तिभिः। आह, नन्वनेन शरीरसमुच्छ्रयेणावश्यकमागृहीतमित्यादि नोपपद्यते, // 34 //