________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरिवृत्तियुतम्। // 33 // यच्छरीरकं संज्ञायां कन् (पा० 5/3/76, 87) वपुरित्यर्थः / कस्य सम्बन्धीत्याह- आवस्सएतीत्यादि। आवश्यकमिति आवश्यकस्य यत्पदमावश्यकपदाभिधेयं शास्त्रमित्यर्थः / तस्यार्थ एवार्थाधिकारोऽनेके वा तद्गता अर्थाधिकारा गृह्यन्ते / तस्य तेषां वा निक्षेपाः ज्ञातुः सम्बन्धि / कथंभूतं तदिदं ज्ञशरीरं द्रव्यावश्यकं भवतीत्याह- व्यपगतच्युतच्यावितत्यक्तदेहं जीवविप्रमुक्तमित्यक्षर- सूत्रम् 17 [10] नोआ० योजना / इदानीं भावार्थः कश्चिदुच्यते, तत्र व्यपगतं चैतन्यपर्यायादचैतन्यलक्षणंपर्यायान्तरं प्राप्तम्, अत एव च्युतमुछ्रासनिश्वा द्रव्यावश्यकस्य सजीवितादिदशविधप्राणेभ्यः परिभ्रष्टम्, अचेतनस्योच्छ्रासाद्ययोग्यत्वादन्यथा लेष्ट्रादीनामपि तत्प्रसङ्गात्, तेभ्यश्च परिभ्रंश 3.2.1 ज्ञशरीरस्वभाववादिभिः कैश्चित्स्वभावत एवाभ्युपगम्यते तदपोहार्थमाह- च्यावितम्, बलीयसायुःक्षयेण तेभ्यः परिभ्रंशितं न तु . द्रव्यावश्यकम्। स्वभावतः, तस्य सदावस्थितत्वेन सर्वदा तत्प्रसङ्गाद् / एवं च सति कथम्भूतं तदित्याह- त्यक्तदेहम् दिह उपचये (पान्धा० 1085, का०धा० 2/62) त्यक्तो देहः, आहारपरिणतिजनित उपचयो येन तत्त्यक्तदेहम्, अचेतनस्याऽऽहारग्रहणपरिणतेरभावात् / एवमुक्तेन विधिना जीवेनात्मना, विविधमनेकधा, प्रकर्षेण मुक्तं जीवविप्रमुक्तम् / तदेतदावश्यकं ज्ञस्य शरीरमतीतावश्यकभावस्य कारणत्वाइव्यावश्यकम् / अस्य च नोआगमत्वमागमस्य तदानीं सर्वथाऽभावानोशब्दस्य चात्र पक्षेसर्वनिषेधवचनत्वादिति भावः / ननु यदि जीवविप्रमुक्तमिदं कथं तहस्य द्रव्यावश्यकत्वम्? लेष्ट्रवादीनामपि तत्प्रसङ्गात्तत्पुद्गलानामपि कदाचिदावश्यकवेत्तृभिर्गृहीतत्वसम्भवादित्याशङ्कयाह- सेज्जागतमित्यादि / यस्मादिदं शय्यागतं वा संस्तारगतं वा नैषेधिकीगतं वा सिद्धशिलातलगतं वा दृष्ट्वा कोऽपि ब्रूयाद्, अहो! अनेन शरीरसमुच्छ्रयेण जिनदृष्टेन भावेनावश्यकमित्येतत्पदमागृहीतमित्यादि // 33 // यावदुपदर्शितमिति, तस्मादतीतवर्तमानकालभाविवस्त्वेकत्वग्राहिनयानुसारिणामेवंवादिनांसम्भवाद्यथोक्तशरीरस्य द्रव्या 0 कच्। 0 परिभ्रंशस्तु।