SearchBrowseAboutContactDonate
Page Preview
Page 53
Loading...
Download File
Download File
Page Text
________________ आवश्यकस्य निक्षेपाः। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 31 // रूढैवंभूताः। ते हि शब्दमेव प्रधानमिच्छन्तीत्यर्थं तु गौणं शब्दवशेनैवार्थप्रतीतेः / तेषां त्रयाणां शब्दनयानां ज्ञायकोऽथ चानुपयुक्त इत्येतदवस्तु, न सम्भवतीदमित्यर्थः / कम्हेति, कस्मादेवमुच्यत इत्याह- जईत्यादि। यदि ज्ञायकस्तर्वानुपयुक्तो न भवति, ज्ञानस्योपयोगरूपत्वाद् / इदमत्र हृदयम्, आवश्यकशास्त्रज्ञस्तत्र चानुपयुक्त आगमतो द्रव्यावश्यकमिति प्राग्निर्णीतम्, सूत्रम् 16 [9]3.2 नोएतच्चामीन प्रतिपद्यन्ते, यतो यद्यावश्यकशास्त्रं जानाति कथमनुपयुक्तः? अनुपयुक्तश्चेत्कथं जानाति?, ज्ञानस्योपयोगरूप आगमतो त्वात् / यदप्यागमकारणत्वादात्मदेहादिकमागमत्वेनोक्तं तदप्यौपचारिकत्वादमी न मन्यन्ते, शुद्धनयत्वेन मुख्यवस्त्वभ्युपगम-1 द्रव्यावश्यकम्। परत्वात् / तस्मादेतन्मते द्रव्यावश्यकस्यासंभव इति / निगमयन्नाह- सेतमित्यादि, तदेतदागमतो द्रव्यावश्यकम् // 15 // उक्तं सप्रपञ्चमागमतो द्रव्यावश्यकमिदानींनोआगमतस्तदुच्यते।। सेकिंतंनोआगमतो दव्वावस्सयं?,२तिविहंपण्णत्तं, तंजहा-जाणगसरीरदव्वावस्सयं१भवियसरीरदव्वास्सयं 2 जाणगसरीरभवियसरीरवतिरित्तंदव्वावस्सयं 3 // सूत्रम् 16 // ( // 15 // ) से किं तमित्यादि / अथ किं तन्नोआगमतो द्रव्यावश्यकमिति प्रश्नः / उत्तरमाह, नोआगमओ दव्वावस्सयं तिविहं पण्णत्त मित्यादि। नोआगमत इत्यत्र नोशब्द आगमस्य सर्वनिषेधे देशनिषेधे वा वर्त्तते, यत उक्तं पूर्वमुनिभिः, आगमसव्वनिसेहे नोसद्दो अहव देसपडिसेहे। सव्वे जह णसरीरं भवस्स य आगमाभावा // 1 // व्याख्या, आगमस्यावश्यकादिज्ञानस्य सर्वनिषेधे वर्त्तते नोशब्दः, अथवा तस्यैव देशप्रतिषेधे वर्तते / तत्र सव्वेत्ति सर्वनिषेध उदाहरणमुच्यते / यथेत्युपप्रदर्शने णसरीरंति ज्ञस्य, जानत:शरीरम् ज्ञशरीरम्, नोआगमत इह द्रव्यावश्यकम्, भव्यस्य चयोग्यस्य यच्छरीरंतदपि नोआगमत इह द्रव्यावश्यकम्। कुत इत्याह- आगमस्यावश्यकादिज्ञानलक्षणस्य सर्वथाऽभावाद् / इदमुक्तं भवति, ज्ञशरीरं भव्यशरीरंचानन्तरमेव वक्ष्यमाण // 31 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy