SearchBrowseAboutContactDonate
Page Preview
Page 52
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। आवश्यकस्य निक्षेपाः। सूत्रम् 15 [8] सप्तनयानाश्रित्य द्रव्यावश्यकस्य विभागः। | // 30 // लोकव्यवहारोपकारिण एव पदार्थानभ्युपगच्छति, नशेषान्, लोकव्यवहारे चजलाहरणव्रणपिण्डीप्रदानादिके घटनिम्बादिविशेषा एवोपकुर्वाणा दृश्यन्ते न पुनस्तदतिरिक्तं तत्सामान्यमिति विशेषानेव वस्तुसत्त्वेन प्रतिपद्यतेऽसौ न सामान्यम्, व्यवहारानुपकारित्वाद्विशेषव्यतिरेकेणानुपलभ्यमानत्वाच्चेति / अतो विशेषवादिनैगममतसाम्येनातिदिष्टः / अत्र चातिदेशेनैवेष्टार्थसिद्धेग्रन्थलाघवार्थं संग्रहमतिक्रम्य व्यवहारोपन्यासः कृत इति भावनीयम्। संगहस्सेत्यादि। सर्वमपि भुवनत्रयान्तर्वति वस्तुनिकुरुम्बं संगृह्णाति सामान्यरूपतयाध्यवस्यतीति संग्रहस्तस्य मत एको वानेके वाऽनुपयुक्तोऽनुपयुक्ता वा यदागमतो द्रव्यावश्यक द्रव्यावश्यकानि वा, तत्किमित्याह, से एगेत्ति तदेकं द्रव्यावश्यकम्। इदमत्र हृदयम्, संग्रहनयः सामान्यमेवाभ्युपगच्छति न विशेषान्, अभिदधाति च, सामान्याद्विशेषा व्यतिरिक्ता स्युरव्यतिरिक्ता वा? यद्याद्यः पक्षस्तर्हि न सन्त्यमी, नि:सामान्यत्वात्खरविषाणवत् / अथापरः पक्षस्तर्हि सामान्यमेव ते, तदव्यतिरिक्तत्वात्, सामान्यस्वरूपवत् / तस्मात्सामान्यव्यतिरेकेण विशेषासिद्धेर्यानि कानिचिमुव्यावश्यकानि तानि तत्सामान्याव्यतिरिक्तत्वादेकमेव संग्रहस्य द्रव्यावश्यकमिति / उज्जुसुयस्सेत्यादि। ऋजु, अतीतानागतपरकीयपरिहारेण प्राञ्जलं वस्तु सूत्रयति, अभ्युपगच्छतीत्यृजुसूत्रः / अयं हि वर्तमानकालभाव्येव वस्त्वभ्युपगच्छति, नातीतं विनष्टत्वान्नाप्यनागतमनुत्पन्नत्वाद् / वर्तमानकालभाव्यपिस्वकीयमेव मन्यतेस्वकार्यसाधकत्वात् स्वधनवत् / परकीयं तु नेच्छति स्वकार्याप्रसाधकत्वात् परधनवत्तस्मादेको देवदेत्तादिरनुपयुक्तोऽस्य मत आगमत एकं द्रव्यावश्यकमस्ति, पुहत्तं नेच्छइत्ति, अतीतानागतभेदतः परकीयभेदतश्च पृथक्त्वंपार्थक्यं नेच्छत्यसौ। किं तर्हि?, वर्तमानकालीनं स्वगतमेव चाभ्युपैति, तच्चैकमेवेति भावः / तिण्हं सद्दनयाणमित्यादि / शब्दप्रधाना नया: शब्दनया:, शब्दसमभि®स्युः ' इत्यधिकम् / // 30 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy