________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 29 // सूत्रम् 15 अवस्थू, कम्हा?, जइ जाणए अणुवउत्ते ण भवति / सेतं आगमओ दव्वावस्सयं / / सूत्रम् 15 // ( // 14 // ) आवश्यकस्य इह जिनमते सर्वमपि सूत्रमर्थश्च श्रोतृजनमपेक्ष्य नयैर्विचार्यते, नत्थि नएहिं विहणं सुत्तं अत्थो य मए किंचि। आसज्ज उ निक्षेपाः। सोयारं नए नयविसारओ बूया // 1 // (आवश्यक नि०७६१) इति वचनात्, अत इदमपि द्रव्यावश्यकं नयैश्चिन्त्यते, ते च8 [8] सप्तनयामूलभेदानाश्रित्य नैगमादयः सप्त, तदुक्तम्, नेगम संगह ववहार उज्जुसुए चेव होइ बोधव्वे। सद्दे य समभिरूढे एवंभूते य मूलनया नाश्रित्य // 1 // (आवश्यक नि०७५४) तत्र नैगमस्तावत्कियन्ति द्रव्यावश्यकानीच्छतीत्याह- नेगमस्सेत्यादि।सामान्यविशेषादिप्रकारेण द्रव्यावश्यकस्य विभागः। नैकोऽपितु बहवोगमा वस्तुपरिच्छेदा यस्यासौ, निरुक्तविधिना ककारस्य लोपान्नैगमः। सामान्यविशेषादिप्रकारैः बहुरूपवस्त्वभ्युपगमपर इत्यर्थः / तस्य, नैगमस्यैको देवदत्तादिरनुपयुक्त आगमत एकं द्रव्यावश्यकम्, द्वौ देवदत्तयज्ञदत्तावनुपयुक्तावागमतो द्वे द्रव्यावश्यके, त्रयो देवदत्तयज्ञदत्तसोमदत्ता अनुपयुक्ता आगमतस्त्रीणि द्रव्यावश्यकानि, किंबहुना?, एवं यावन्तो देवदत्तादयोऽनुपयुक्तास्तावन्त्येव तान्यतीतादिकालत्रयवर्तीनि नैगमस्यागमतो द्रव्यावश्यकानि / एतदुक्तं भवति-नैगमो हि सामान्यरूपं विशेषरूपंच वस्त्वभ्युपगच्छत्येव, न पुनर्वक्ष्यमाणसंग्रहवत्सामान्यरूपमेव, ततो विशेषवादित्वादस्यह प्राधान्येन विविक्षितत्वाद्यावन्तः केचन देवदत्तादिविशेषा अनुपयुक्तास्तावन्ति सर्वाण्यप्यस्य द्रव्यावश्यकानि, न पुनः संग्रहवत्सामान्यवादित्वादेकमेवेतिभावः / एवमेव ववहारस्सवित्ति व्यवहरणं व्यवहारो लौकिकप्रवृत्तिरूपः, तत्प्रधानो नयोऽपि व्यवहारः। तस्याप्येवमेव गमवदेको देवदत्तादिरनुपयुक्त आगमत एकं द्रव्यावश्यकमित्यादिसर्वं वाच्यम् / इदमुक्तं भवति, व्यवहारनयो जइ अणुवउत्ते जाणए ण भवति तम्हा णत्थि आगमओ दव्वावस्सयं'-इत्यधिकमस्ति / तो। 0 नास्ति नयैविहीनं सूत्रमर्थश्च जिनमते किञ्चित्। आसाद्य तु श्रोतारं नयान् नयविशारदो ब्रूयात् // 1 // हु। 9 नैगमः संग्रहो व्यवहार ऋजुसूत्रश्चैव भवति बोद्धव्यः / शब्दश्च समभिरूढ एवम्भूतश्च मूलनयाः॥१॥