________________ आवश्यकस्य निक्षेपाः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 28 // सूत्रम् 14 श्रेणिकश्च सपुत्रः समाययौ। ततो भगवदन्तिके धर्मं श्रुत्वा प्रतिनिवृत्तायां परिषदि कस्यचिद्विद्याधरस्य गगनोत्पतनहेतुविद्यासंबन्ध्येकमक्षरं विस्मृतिपथमवततार / विस्मृते च तस्मिन्किञ्चिन्नभस्युत्पत्य पुनर्निपतत्यसौ, पुनरुत्पतति पुनश्च निपतति / एवं कुर्वन्तममुं विलोक्य श्रेणिकेन भगवान्पृष्ठः, किमित्ययं महाभागः खेचरो विधुरितपक्षः पक्षीव नभसि किञ्चिदुत्पत्य पुनर्निपतत्यसौ? भगवता च विद्याक्षरविस्मरणव्यतिकरस्तस्मै निवेदितः। तंच निवेद्यमानं श्रुत्वाभयकुमारःखेचरमुपसृत्यैवमवादीत्, भोः खेचर! यदि मांसमानसिद्धिकं करोषि तदा त्वद्विद्याक्षरमुपलभ्य कथयामि / प्रतिपन्नं च तेन / अभयकुमारस्य चैकस्मादपि पदादनेकपदाभ्यूहनशक्तिरस्तीति शेषाक्षरानुसारेणोपलभ्य तदक्षरं निवेदितं खेचरस्य / सोऽपि संजातसंपूर्णविद्यो हृष्टः श्रेणिकसुताय विद्यासाधनोपायंकथयित्वा गतः समीहितप्रदेशमित्येष दृष्टान्तः / उपनयस्त्वयम्, यथा तस्य विद्याधरस्य हीनाक्षरतादोषान्नभोगमनमुपरतं तदुपरमे च व्यथैव विद्या। तथेहापि हीनाक्षरतायामर्थभेदस्तद्भेदे क्रियाभेदस्तद्भेदे च मोक्षाभावस्तदभावे च दीक्षादिग्रहणवैयर्थ्यमेवेति / एवमधिकाक्षरादिष्वपि दोषाः सदृष्टान्ता अभ्यूह्य वाच्याः // 14 // / (1) णेगमस्स एगो अणुवउत्तो आगमओ एगं दव्वावस्सयं, दोण्णि अणुवउत्ता आगमओ दोण्णि दव्वावस्सयाई, तिण्णि अणुवउत्ता आगमओ तिण्णि दव्वावस्सयाई एवं जावइया अणुवउत्ता तावइयाइं ताई णेगमस्स आगमओ दव्वावस्सयाई (2) एवमेव ववहारस्सवि, (3) संगहस्स एगोवा अणेगावा अणुवउत्तो वा अणुवउत्ता वा आगमओ दव्वावस्सयं दव्वावस्सयाणि वा से एगे दव्वावस्सए, (4) उज्जुसुयस्स एगो अणुवउत्तो आगमओएगंदव्वावस्सयं, पुहुत्तं नेच्छइ, (5) तिण्हं सद्दनयाणं जाणए अणुवउत्ते Oणं' इत्यधिकम् / ॐ 'अणुवउत्ता आगमओ तिण्णि' इति नास्ति / ०'अणुवउत्ता आगमओ तावइयाई दव्वावस्सयाई...'इति रूपेण पाठो वर्तते। 0 अणेगो। तो। ३.१आगमतो द्रव्यावश्यकस्य व्याख्यानमभयकुमार विद्याधरयोदृष्टान्तञ्च। सूत्रम् 15 आवश्यकस्य निक्षेपाः। [8 सप्तनयानाश्रित्य द्रव्यावश्यकस्य विभागः। // 28 //