________________ आवश्यकस्य निक्षेपाः। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 27 // सूत्रम् 14 ३.१आगमतो द्रव्यावश्यकस्य व्याख्यानमभयकुमार विद्याधरयोदृष्टान्त। तत्र वर्तमानोन द्रव्यावश्यकमित्यर्थः / अनुप्रेक्षाया उपयोगमन्तरेणाभावाद्, उपयुक्तस्य च द्रव्यावश्यकत्वायोगादिति भावः। अत्राह पर:कम्हत्ति, ननु कस्माद्वाचनादिभिस्तत्र वर्तमानोऽपि द्रव्यावश्यकं? कस्माच्चानुप्रेक्षया तत्र वर्त्तमानो न तथा? इति प्रच्छकाभिप्रायः / एवं पृष्टे सत्याह- अणुवओगो दव्वमितिकट्ठत्ति,अनुपयोगो द्रव्यमितिकृत्वा / उपयोजनमुपयोगो जीवस्य बोधरूपो व्यापारः, स चेह विवक्षितार्थे चित्तस्य विनिवेशस्वरूपो गृह्यते / न विद्यतेऽसौ यत्र सोऽनुपयोगः पदार्थः। स विवक्षितोपयोगस्य कारणमात्रत्वाद्र्व्यमेव भवती तिकृत्वाऽस्मात्कारणादनन्तरोक्तमुपपद्यत इति शेषः / एतदुक्तं भवति, उपयोगपूर्वका अनुपयोगपूर्वकाश्च वाचनाप्रच्छनादयः सम्भवन्त्येव, तत्रेह द्रव्यावश्यकचिन्ताप्रस्तावादनुपयोगपूर्वका गृह्यन्ते। अत एव सूत्रेऽनभिहितस्याप्यनुपयुक्तत्वस्याध्याहारस्तत्र कृतः / अनुपयोगस्तुभावशून्यता, तच्छून्यं च वस्तु द्रव्यमेव भवतीत्यतो वाचनादिभिस्तत्र वर्तमानोऽपि द्रव्यावश्यकम् / अनुप्रेक्षा तूपयोगपूर्विकैव सम्भवत्यतस्तत्र वर्तमानो न तथेति भावार्थः। अत्राह-नन्वागमतोऽनुपयुक्तो वक्ता द्रव्यावश्यकमित्येतावतैवेष्टसिद्धेः शिक्षितादिश्रुतगुणसमुत्कीर्तनमनर्थकम् / अत्रोच्यते, शिक्षितादिगुणोत्कीर्तनं कुर्वन्निदं ज्ञापयति, यदुतैवम्भूतमपि निर्दोषं श्रुतमुच्चारयतोऽनुपयुक्तस्य द्रव्यश्रुतं द्रव्यावश्यकमेव भवति, किं पुनः सदोषम्?, उपयुक्तस्य तुस्खलितादिदोषदुष्टमपि निगदतोभावश्रुतमेव भवति। एवमन्यत्रापि प्रत्युपेक्षणादिक्रियाविशेषाः सर्वे निर्दोषा अप्यनुपयुक्तस्य तथाविधफलशून्या एव सम्पद्यन्ते, उपयुक्तस्य तु मतिवैकल्यादितः सदोषा अप्यमी कर्ममलापगमार्यवेत्यलं विस्तरेण / अत्राह- ननु भवत्वेवं किन्तु हीनाक्षरे सूत्रे समुच्चारिते को दोषो? येनोक्तमहीनाक्षरमिति / अत्रोच्यते, लोकेऽपि तावद्विद्यामन्त्रादिभिरक्षरादिहीनैरुच्चार्यमाणैर्विवक्षितफलवैकल्यमनर्थावाप्तिश्च दृश्यते, किं पुन: परममन्त्रकल्पे सिद्धान्ते?, तथाहि, राजगृहनगरे समवसृतस्य भगवतश्चरमतीर्थाधिपतेर्वन्दनार्थं विबुधविद्याधरनरनिवहः