________________ आवश्यकस्य निक्षेपाः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 26 // सूत्रम् 14 3.1 आगमतो द्रव्यावश्यकस्य व्याख्यानमभयकुमार विद्याध मालागतरत्नानीव व्याविद्धानि, विपर्यस्तान्यक्षराणि यत्र तव्याविद्धाक्षरंन तथाऽव्याविद्धाक्षरम्, अव्वाइद्धमिति क्वचित्पाठः, तत्रापि व्याविद्धाक्षरयोगाद्व्याविद्धम् न तथाऽव्याविद्धम्। उपलशकलाद्याकुलभूभागे लाङ्गलमिवस्खलति यत्तत्स्खलितंन तथाऽस्खलितम्। अनेकशास्त्रसम्बन्धीनि सूत्राण्येकत्र मीलयित्वा यत्र पठति तन्मिलितमसदृशधान्यमेलकवत् / अथवा परावर्त्तमानस्य यत्र पदादिविच्छेदो न प्रतीयते तन्मीलितम्, न तथाऽमीलितम्। एकस्मिन्नेव शास्त्रेऽन्यान्यस्थाननिबद्धान्येकार्थानि सूत्राण्येकत्रस्थाने समानीय पठतो व्यत्यानेडितम् / अथवाचारादिसूत्रमध्ये स्वमतिचर्चितानि सत्सदृशानि सूत्राणि कृत्वा प्रक्षिपतो व्यत्यानेडितम्, अस्थानविरतिकं वा व्यत्यानेडितम् न तथाऽव्यत्यानेडितम्, सूत्रतो बिन्दुमात्रादिभिरनूनमर्थतस्त्वध्याहाराकाङ्कादिरहितं प्रतिपूर्णम्। उदात्तादिघोषैरविकलं प्रतिपूर्णघोषम्। अत्राह-घोषसममित्युक्तमेव तत्क इह विशेष इति / उच्यते, घोषसममिति शिक्षाकालमधिकृत्योक्तं प्रतिपूर्णघोषं तु परावर्तनादिकालमधिकृत्येति विशेषः / कण्ठश्चौष्ठश्च कण्ठोष्ठमिति प्राण्यङ्गत्वात्समाहारस्तेन विप्रमुक्तं कण्ठोष्ठविप्रमुक्तम्, बालमूकभाषितवद्यदव्यक्तं न भवतीत्यर्थः / गुरुप्रदत्तया वाचनयोपगतं प्राप्तं गुरूवाचनोपगतं न तु कर्णाघाटकेन शिक्षितं न वा पुस्तकात्स्वयमेवाधीतमिति भावः / तदेवं यस्य जन्तोरावश्यकशास्त्रं शिक्षितादिगुणोपेतं भवति स जन्तुस्तत्रावश्यकशास्त्रे वाचनया शिष्याध्यापनलक्षणया, प्रच्छनया तद्गतार्थादेर्गुरुं प्रति प्रश्नलक्षणया, परावर्तनयापुनः पुनःसूत्रार्थाभ्यासलक्षणया धर्मकथया, अहिंसादिधर्मप्ररूपणस्वरूपया वर्तमानोऽपि, अनुपयुक्तत्वादिति साध्याहारम्, आगमतो द्रव्यावश्यकमित्यनेन सम्बन्धः / ननु यथावाचनादिभिस्तत्र वर्तमानोऽपि द्रव्यावश्यकं भवति तथानुप्रेक्षयापि तत्र वर्त्तमानस्तद्भवति?, नेत्याह-नो अणुप्पेहाएत्ति, अनुप्रेक्षया ग्रन्थार्थानुचिन्तनरूपया, हटान्ता / // 26 //