________________ श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 25 // आवश्यकस्य निक्षेपाः। | सूत्रम् 14 ३.१आगमतो द्रव्यावश्यकस्य व्याख्यानमभयकुमार विद्याधरयोदृष्टान्त। अणचक्खरं अव्वाइद्धक्खरं अक्खलियं अमिलियं अवच्चामेलियं पडिपुण्णं पडिपुण्णघोसं कंठोट्ठविप्पमुक्कं गुरुवायणोवगयं, से। णंतत्थ वायणाएपुच्छणाए परियट्टणाए धम्मकहाएणोअणुप्पेहाए, कम्हा?, अणुवओगोदव्व'मितिकट्ठ॥सूत्रम् 14 // // 13 // ) से किं तमित्यादि / अथ किं तदागमतो द्रव्यावश्यकमिति, आह-आगमतो दव्वावस्सयंजस्स णमित्यादि / णमिति पूर्ववत्, जस्सत्ति यस्य कस्यचि दावस्सएत्तिपयंति, आवश्यकपदाभिधेयंशास्त्रमित्यर्थः / ततश्च यस्य कस्यचिदावश्यकशास्त्रं शिक्षित स्थितं जितं यावद्वाचनोपगतंभवति, सेणं तत्थेति।सजन्तुस्तत्रावश्यकशास्त्रे वाचनाप्रच्छनापरिवर्त्तनाधर्मकथाभिर्वर्तमानोऽयावश्यकोपयोगेऽवर्तमान आगमतआगममाश्रित्य द्रव्यावश्यकमिति समुदायार्थः।अत्राह-नन्वागममाश्रित्य द्रव्यावश्यकमित्यागमरूपमिदं द्रव्यावश्यकमित्युक्तं भवति, एतच्चायुक्तम्, यत आगमो ज्ञानम्, ज्ञानंच भाव एवेति कथमस्य द्रव्यत्वमुपपद्यते?, सत्यमेतत्, किन्त्वागमस्य कारणमात्मा तदधिष्ठितो देहः शब्दश्चोपयोगशून्यसूत्रोच्चारणरूप इहास्ति, न तु साक्षादागमः / एतच्च त्रितयमागमकारणत्वात्कारणे कार्योपचारादागम उच्यते / कारणंच विवक्षितभावस्य द्रव्यमेव भवतीत्युक्तमेवेत्यदोषः। तत्रादित आरभ्य पठनक्रियया यावदन्तं नीतं तच्छिक्षितमुच्यते / तदेवाविस्मरणतश्चेतसि स्थितत्वात्स्थितमप्रच्युतमित्यर्थः। परावर्त्तनं कुर्खतः परेण वा क्वचित्पृष्टस्य यच्छीघ्रमागच्छति तज्जितम्, विज्ञातश्लोकपदवर्णादिसङ्ख्यं मितम्, परि समन्तात्सर्व्वप्रकारैर्जितं परिजितम्, परावर्त्तनं कुर्वतो यत्क्रमेणोत्क्रमेण वा समागच्छतीत्यर्थः। नाम, अभिधानं तेन समं नामसमम्। इदमुक्तं भवति, यथा स्वनाम कस्यचिच्छिक्षितं जितं मितं परिजितं भवति तथैतदपीत्यर्थः / घोषा उदात्तादयः, तैर्वाचनाचार्याभिहितघोषैः समं घोषसमम्, यथा गुरुणाभिहिता घोषास्तथा शिष्योऽपि यत्र शिक्षते तद्घोषसममिति भावः / एकद्व्यादिभिरक्षरैहीनं हीनाक्षरम्, न तथाऽहीनाक्षरम्, एकादिभिरक्षरैरधिकमत्यक्षरम्, न तथानत्यक्षरम्। अव्वाइद्धखरंति विपर्यस्तरत्न