SearchBrowseAboutContactDonate
Page Preview
Page 46
Loading...
Download File
Download File
Page Text
________________ आवश्यकस्य निक्षेपाः। श्रीअनुयोगद्वारं मलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | // 24 // सूत्रम् 13 [6] 3.1-2 द्रव्यावश्यकस्वरूपमागमतो नोआगमतश्च। सूत्रम् 14 __से किं तमित्यादि / अथ किं तव्यावश्यकमिति पृष्टे सत्याह- दव्वावस्सयं दुविहमित्यादि / तत्र द्रवति गच्छति ताँस्तान् पर्यायानिति द्रव्यम्, विवक्षितयोरतीतभविष्यद्भावयो: कारणम्, अनुभूतावश्यकपरिणाममनुभविष्यद्विवक्षितभावंवा वस्त्वित्यर्थः / द्रव्यं च तदावश्यकं च द्रव्यावश्यकम् / अनुभूतावश्यकपरिणाममनुभविष्यदावश्यकपरिणामंवा साधुदेहादीत्यर्थः। द्रव्यलक्षणं च सामान्यत इदम्, भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके / तद्व्यं तत्त्वज्ञैः सचेतनाचेतनं कथितम् // 1 // व्याख्या, तद्दव्यं तत्त्वज्ञैः कथितं यत्कथम्भूतमित्याह, यत्कारणं हेतुः, कस्येत्याह- भावस्य पर्यायस्य, कथम्भूतस्येत्याहभूतस्यातीतस्य भाविनो वा भविष्यतो वा, लोक आधारभूते, तच्च सचेतनम्, पुरुषाद्यचेतनं च काष्ठादि भवति / एतदुक्तं भवति, यः पूर्वं स्वर्गादिष्विन्द्रादित्वेन भूत्वेदानीं मनुष्यादित्वेन परिणत: सोऽतीतस्येन्द्रादिपर्यायस्य कारणत्वात्साम्प्रतमपि द्रव्यत इन्द्रादिरभिधीयते, अमात्यादिपदपरिभ्रष्टामात्यादिवत् / तथाग्रेऽपि य इन्द्रादित्वेनोत्पत्स्यते स इदानीमपि भविष्यदिन्द्रादिपदपर्यायकारणत्वाव्यत इन्द्रादिरभिधीयते, भविष्यद्राजकुमारराजवत् / एवमचेतनस्यापि काष्ठादेर्भूतभविष्यत्पर्यायकारणत्वेन द्रव्यता भावनीयेत्यार्यार्थः॥१॥इतःप्रकृतमुच्यते, तच्चेह द्रव्यरूपमावश्यकं प्रकृतम्। तत्रावश्यकोपयोगाधिष्ठितः साध्वादिदेहो वन्दनकादिसूत्रोच्चारणलक्षणश्चागम आवर्तादिका क्रिया चावश्यकमुच्यते। आवश्यकोपयोगशून्यास्तु ता एव देहागमक्रिया द्रव्यावश्यकम् / तच्च द्विविधं प्रज्ञप्तमिति / तद्यथा-आगमतः, आगममाश्रित्य नोआगमतोनोआगममाश्रित्य। नोआगमशब्दार्थ यथावसरमेव वक्ष्यामः / चशब्दौ द्वयोरपिस्वस्वविषये तुल्यप्राधान्यख्यापनार्थी॥१३॥अत्राद्यभेदजिज्ञासुराह से किंतं आगमतो दव्वावस्सयं?,२जस्सणं आवस्सएत्ति पदं सिक्खितं ठितं जितं मितं परिजितं णामसमंघोससमं अहीणक्खरं 3.1 आयमतो द्रव्यावश्यकस्य व्याख्यानमभयकुमार विद्याधरयोदृष्टान्त। // 24 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy