________________ आवश्यकस्य निक्षेपाः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्ति युतम्। // 23 // कम्, स्वाश्रयद्रव्यस्यास्तित्वकथां यावदनुवर्त्तते, न पुनरन्तराप्युपरमते / स्थापना पुनरित्वरी स्वल्पकालभाविनी वा स्याद्यावत्कथिका वा, स्वाश्रयद्रव्येऽवतिष्ठमानेऽपि काचिदन्तरापि निवर्त्तते काचित्तु तत्सत्तां यावदवतिष्ठत इति भावः / तथाहि, नामावश्यकादिकं मेरुजम्बूद्वीपकलिङ्गमगधसुराष्ट्रादिकंवा यावत्स्वाश्रयो गोपालदारकदेहादिः शिलासमुच्चयादि समस्ति तावदवतिष्ठत इति तद्यावत्कथिकमेव ।स्थापनात्वावश्यकत्वेन योऽक्षःस्थापित:स क्षणान्तरे पुनरपि तथाविधप्रयोजनसम्भव इन्द्रत्वेन स्थाप्यते पुनरपिच राजादित्वेनेत्यल्पकालीना। शाश्वतप्रतिमादिरूपा तु यावत्कथिका वर्तते, तस्याश्चार्हदादिरूपेण सर्वदा तिष्ठतीति स्थापनेति व्युत्पत्तेः स्थापनात्वमवसेयम् / न तु स्थाप्यत इति स्थापना, शाश्वतत्वेन केनापि स्थाप्यमानत्वाभावादिति / तस्माद्भावशून्यद्रव्याधारसाम्येऽप्यस्त्यनयो: कालकृतो विशेषः / अत्राह, ननु यथा स्थापना काचिदल्पकालीना तथा नामापि किश्चिदल्पकालीनमेव, गोपालदारकादौ विद्यमानेऽपि कदाचिदनेकनामपरावृत्तिदर्शनाद् / सत्यम्, किन्तु प्रायो नाम यावत्कथितमेव, यस्तु क्वचिदन्यथोपलम्भः सोऽल्पत्वान्नेह विवक्षित इत्यदोषः / उपलक्षणमात्रं चेदं कालभेदेनैतयोर्भेदकथनम्, अपरस्यापि बहुप्रकारभेदस्य सम्भवात् / तथाहि, यथेन्द्रादिप्रतिमास्थापनायांकुण्डलाऽङ्गदादिविभूषितः सन्निहितशची वज्रादिराकार उपलभ्यते न तथा नामेन्द्रादौ / एवं तथा तत्स्थापनादर्शनाद्भावः समुल्लसति नैवमिन्द्रादिनामश्रवणमात्राद् / यथा च तत्स्थापनायां लोकस्योपयाचितेच्छापूजाप्रवृत्तिसमीहितलाभादयो दृश्यन्ते नैवं नामेन्द्रादावित्येवमन्यदपि वाच्यमिति // 12 // उक्तं स्थापनावश्यकमिदानीं द्रव्यावश्यकनिरूपणाय प्रश्नं कारयति से किंतंदव्वावस्सयं?, 2 दुविहं पण्णत्तं, तंजहा- आगमतो य णोआगमतोय // सूत्रम् 13 // ( // 12 // ) 0 ते (ति)। 0 कालवर्तिनी। सूत्रम् 12 [4] नामस्थापनयोः प्रतिविशेषः। सूत्रम् 13 [6] 3.1-2 द्रव्यावश्यकस्वरूपमागमतो नोआगमतश्च।