SearchBrowseAboutContactDonate
Page Preview
Page 44
Loading...
Download File
Download File
Page Text
________________ आवश्यकस्य निक्षेपाः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। | // 22 // रूपकम् / पोत्थकम्मे व त्ति / अत्र पोत्थं पोतं वस्त्रमित्यर्थः / तत्र कर्म तत्पल्लवनिष्पन्नं धीउल्लिकारूपकमित्यर्थः। अथवा पोत्थं पुस्तकं तच्चेह संपुटकरूपं गृह्यते, तत्र कर्म तन्मध्ये वर्तिकालिखितं रूपकमित्यर्थः / अथवा पोत्थं ताडपत्रादि तत्र कर्म, तच्छेदनिष्पन्नं रूपकम् / लेप्यकर्म लेप्यरूपकम् / ग्रन्थिमं कौशलातिशयादन्थिसमुदायनिष्पादितं रूपकम् / वेष्टिमंड सूत्रम् 12 [[5] नामपुष्पवेष्टनक्रमेण निष्पन्नमानन्दपुरादिप्रतीतरूपम् / अथवैकं व्यादीनिवा वस्त्राणि वेष्टयन् कश्चिद्रूपकमुत्थापयति तद्वेष्टिमम् / / स्थापनयोः पूरिमंभरिमं पित्तलादिमयप्रतिमावत् / संघातिमबहुवस्त्रादिखण्डसंघातनिष्पन्नं कञ्चकवत् / अक्षश्चन्दनको वराटक: कपर्दकः। प्रतिविशेषः। अत्र वाचनान्तरेऽन्यान्यपि दन्तकर्मादिपदानि दृश्यन्ते तान्यप्युक्तानुसारतो भावनीयानि / वाशब्दाः पक्षान्तरसूचकाः, यथासम्भवमेवमन्यत्रापि / एतेषु काष्ठकर्मादिष्वाश्यकक्रियांकुर्वन्त एकादिसाध्वादयः सद्भावस्थापनयाऽसद्धावस्थापनयावास्थाप्यमानाः स्थापनावश्यकम्। तत्र काष्ठकर्मादिष्वाकारवती सद्भावस्थापना, साध्वाद्याकारस्य तत्र सद्भावात् / अक्षादिषु त्वना-8 कारवत्यसद्भावस्थापना, साध्वाद्याकारस्य तत्रासद्भावादिति / निगमयन्नाह,सेतमित्यादि तदेतत्स्थापनावश्यकमित्यर्थः। // 11 // अत्र नामस्थापनयोरभेदं पश्यन्निदमाह नामट्ठवणाणं को पइविसेसो?, णामं आवकहियं, ठवणा इत्तरिया वा होज्जा आवकहिया वा // सूत्रम् 12 // // 11 // ) नाम ठवणाणं को पइविसेसोत्ति / नामस्थापनयोः कः प्रतिविशेषो?, न कश्चिदित्यभिप्रायः। तथाहि, आवश्यकादिभावार्थशून्ये गोपालदारकादौ द्रव्यमाने यथावश्यकादि नाम क्रियते तत्स्थापनापि तथैव तच्छून्ये काष्ठकर्मादौ द्रव्यमाने क्रियतेऽतो भावशून्ये द्रव्यमाने क्रियमाणत्वाविशेषान्नानयोः कश्चिद्विशेषः / अत्रोत्तरमाह- नामं आवकहियमित्यादि। नाम यावत्कथि // 22 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy