SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोग द्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 21 // चारादावश्यकंच स्थापनावश्यकम्, स्थापनालक्षणंच सामान्यत इदम्, यत्तु तदर्थवियुक्तं तदभिप्रायेण यच्च तत्करणि / लेप्यादिकर्म आवश्यकस्य तत्स्थापनेति क्रियतेऽल्पकालं च // 1 // इति / विनेयानुग्रहार्थमत्रापि व्याख्या, तुशब्दो नामलक्षणात्स्थापनालक्षणस्य निक्षेपाः। भेदसूचकः। स चासावर्थश्च तदर्थो भावेन्द्रभावावश्यकादिलक्षणस्तेन वियुक्तं रहितं यद्वस्तु तदभिप्रायेण भावेन्द्राधभिप्रायेण सूत्रम् 11 [4] स्थापनाक्रियते स्थाप्यते तत्स्थापनेति सम्बन्धः। किंविशिष्टं यदित्याह- यच्च तत्करणि तेन भावेन्द्रादिना सह करणिः सादृश्यं यस्य / वश्यकतत्करणि, तत्सदृशमित्यर्थः। चशब्दात्तदकरणि चाक्षादि वस्तु गृह्यतेऽसदृशमित्यर्थः। किं पुनस्तदेवंभूतं वस्त्वित्याह, निरूपणम्। लेप्यादिकर्मेति, लेप्यपुत्तलिकादीत्यर्थः। आदिशब्दात्काष्ठपुत्तलिकादि गृह्यतेऽक्षादिवानाकारम् / कियन्तं तत्क्रियत इत्याह, अल्पः कालो यस्य तदल्पकालमित्वरकालमित्यर्थः। चशब्दाद्यावत्कथिकं च शाश्वतप्रतिमादि। यत्पुनर्भावेन्द्राद्यर्थरहितं साकारमनाकारं वा तदर्थाभिप्रायेण क्रियते तत्स्थापनेति तात्पर्यमित्यार्यार्थः॥१॥ इदानीं प्रकृतमुच्यते, जणं ति।ण मिति वाक्यालङ्कारे / यत्काष्ठकर्मणि वा चित्रकर्मणि वा यावद्वराटके वैको वानेको वा सद्भावस्थापनया वासद्भावस्थापनया वा आवस्सएत्ति, आवश्यकतद्वतोरभेदोपचारात्तद्वानिह गृह्यते / ततश्चैको वानेके वा, कथम्भूता:? अत उच्यते, आवश्यकक्रियावानावश्यकक्रियावन्तोवा ठवणा ठविज्जतित्ति स्थापनारूप:स्थाप्यते क्रियते, आवृत्त्या बहुवचनान्तत्वे स्थापनारूपा:स्थाप्यन्ते, क्रियन्ते तत्स्थापनावश्यकमित्यादिपदेन सम्बन्ध इति समुदायार्थः। काष्ठकादिष्वावश्यकक्रियां कुर्व्वन्तो यत्स्थापनारूपाः साध्वादयःस्थाप्यन्ते तत्स्थापनावश्यकमिति तात्पर्यम्। // 21 // अधुनावयवार्थ उच्यते। तत्र क्रियत इति कर्म, काष्ठे कर्म काष्ठकर्म, काष्ठनिकुट्टितं रूपकमित्यर्थः / चित्रकर्मचित्रलिखितं 0(तत्)' इत्यधिकम् / (r) को 10 पं /
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy