SearchBrowseAboutContactDonate
Page Preview
Page 405
Loading...
Download File
Download File
Page Text
________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 383 // व्यतामिच्छन्ति, नास्ति परसमयवक्तव्यतेति मन्यन्ते / कस्मादित्याह- यस्मात्परसमयोऽनर्थ इत्यादि / इत्थं चेह योजना कार्या, [2] उपक्रमः। शा० उपक्रमः। नास्ति परसमयवक्तव्यता, परसमयस्यानर्थत्वादित्यादि।अनर्थत्वं परसमयस्य नास्त्येवात्मे'त्यनर्थप्रतिपादकत्वादात्मनास्ति १.४वक्तव्यता। त्वस्य चानर्थत्वम्, आत्माभावे तत्प्रतिषेधानुपपत्तेः / उक्तं च जो चिंतइ सरीरे नत्थि अहं स इव(इध) होइ जीवोत्ति / न हु जीवंमि असंते संसयउप्पायओ अण्णो॥१॥ इत्याद्यन्यदप्यभ्यूह्यम् / अहेतुत्वं च परसमयस्य हेत्वाभासबलेन प्रवृत्तेः / यथा नास्त्येवात्माऽत्यन्तानुपलब्धेः, हेत्वाभासश्चायं ज्ञानादेस्तद्गुणस्योपलब्धेः / उक्तं च नाणाईण गुणाणं अणुभवओ होइ जंतुणो सत्ता। जह रूवाइगुणाणं उवलंभाओ घडाईण॥१॥मित्यादि प्रागेवोक्तमिति / असद्भावत्वं चैकान्तक्षणभङ्गाद्यसद्भूतार्थाभिधायकत्वादेकान्तक्षणभङ्गादेश्चासद्भूतत्वंयुक्तिविरोधात्तथाहि धम्माऽधम्मुवएसो कयाऽकयं परभवाऽऽय गमणंच। सव्वावि हुलोयठिई न घडइ एगंतखणियम्मी॥१॥त्यादि। अक्रियात्वं चैकान्तशून्यताप्रतिपादनात्, सर्वशून्यतायांच क्रियावतोऽभावेन क्रियाया / असम्भवात्, उक्तं च सव्वं सुन्नंति जयं पडिवन्नं जेहि तेऽवि वत्तव्वा / सुन्नाभिहाणकिरिया वत्तुरभावेण कह घडई?॥१॥ इत्यादि। उन्मार्गत्वं परस्परविरोध(धात् स्थाण्वाद्याकुलत्वात्तथाहि न हिंस्यात् सर्वभूतानि, साणि स्थावराणि च / आत्मवत्सर्वभूतानि, यः पश्यति स धार्मिकः॥१॥ इत्याद्यभिधाय पुनरपि षट् सहस्राणि युज्यन्ते, पशूनां मध्यमेऽहनि। अश्वमेधस्य वचनान्न्यूनानि पशुभिस्त्रिभिः॥१॥ इत्यादि प्रतिपादयन्तीति। अनुपदेशत्वं चैकान्तक्षणभङ्गादिवादिनामहितेऽपि प्रवर्तकत्वात्तदुक्तम्, सर्वं आत्मनो। 0 यश्चिन्तयति शरीरे नास्म्यहं स एव भवति जीव इति / नैव जीवेऽसति संशयोत्पादकोऽन्यः॥१॥0ते। 0 ज्ञानादीनां गुणानामनुभवाज्जन्तोः // 383 // सत्ता। यथा रूपादिगुणानामुपलम्भाद् घटादीनाम् // 2 // 7 धर्माधर्मोपदेशः कृताकृतं परभवगमनादिकं च। सर्वाऽपि लोकस्थितिर्न घटत एकान्तक्षणिके॥१॥ 0 सर्व शून्यं जगदिति प्रतिपन्नं यैस्तेऽपि वक्तव्याः / शून्याभिधानक्रिया कर्तुरभावे कथं घटते? // 1 // 7 स्थावराणि चराणि। सूत्रम् 521-525 स्वसमयपरसमयोभयवक्तव्यता नयापेक्षया विभजनञ्च।
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy