________________ श्रीअनुयोग श्रीहेमचन्द्रसूरिवृत्तियुतम्। / / 384 // क्षणिकमित्येतद्, ज्ञात्वा को न प्रवर्तते? | विषयादौ विपाको मे, न भावीति विनिश्चयाद् // 1 // इत्यादि। यतश्चैवं ततो मिथ्यादर्शनम्, ततश्च मिथ्यादर्शनमितिकृत्वा नास्ति परसमयवक्तव्यतेति वर्तते / एवं सावयादिसमयानामप्यनर्थत्वादियोजना स्वबुद्ध्या कार्येति / तस्मात्सर्वा स्वसमयवक्तव्यतैव / लोके प्रसिद्धानपि परसमयान्स्यात्पदलाञ्छननिरपेक्षतया दुर्नयत्वादसत्त्वेनैते नयाः प्रतिपद्यन्त इति भावः / स्यात्पदलाञ्छनसापेक्षतायां तु स्वसमयवक्तव्यतान्तर्भाव एव / प्रोक्तं च महामतिना नयास्तव स्यात्पदलाञ्छना इमे, रसोपदिग्धा इव लोहधातवः / भवन्त्यभिप्रेतगुणा यतस्ततो, भवन्तमार्याः प्रणता हितैषिणः॥१॥(बृहत्स्वयंभू०) इत्यादि। सेयं वक्तव्यतेति निगमनम् // वक्तव्यता समाप्ता॥५२५॥ साम्प्रतमर्थाधिकारावसरः, [1] उपक्रमः। शा० उपक्रमः। १.५अर्थाधिकारः। सूत्रम् 526 |1.5 अर्था[धिकारः। ॥अथोपक्रमानुयोगद्वारे अर्थाधिकाराख्यं पञ्चमप्रतिद्वारम्॥ से किंतं अत्थाहिगारे?,२ जो जस्स अज्झयणस्स अत्थाहिगारो, तंजहा-सावज्जजोगविर ती १उक्त्तिण 2 गुणवओय पडिवत्ती २।खलियस्स निंदणा 4 वणतिगिच्छ 5 गुणधारणा ६चेव॥१२३॥सेतं अत्थाहिगारे॥सूत्रम् 526 // // 148 // ) तत्र यो यस्य सामायिकाद्यध्ययनस्यात्मीयोऽर्थस्तदुत्कीर्तनमर्थाधिकारस्य विषयः। तच्च सावज्जजोगविरतीत्यादिगाथावसरे / प्रागेव कृतमिति नपुनःप्रतन्यत इति ।वक्तव्यतार्थाधिकारयोस्त्वयं भेदः, अर्थाधिकारोऽध्ययन आदिपदादारभ्य सर्वपदेष्वनुवर्तते, पुद्गलास्तिकाये प्रतिपरमाणु मूर्तत्ववत्, वक्तव्यता तु देशादिनियतेति // 526 // अथ समवतारं निरूपयितुमाह // 384 // ञ्छिता। 0 विभो' (प्र०)। 0 विद्धा पा० /