SearchBrowseAboutContactDonate
Page Preview
Page 404
Loading...
Download File
Download File
Page Text
________________ शा० उपक्रमः। श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 382 // सूत्रम् 521-525 स्वसमयपरसमयोभयवक्तव्यता विभजनश्च। पृथिव्यादीनि यानि पञ्च महाभूतानि तेभो त्ति, तेभ्यः कायाकारपरिणतेभ्य एकः कश्चिच्चिद्रूपो भूताव्यतिरिक्त आत्मा भवति, [[1] उपक्रमः। न तु भूतव्यतिरिक्तः परलोकयायीत्येवं ते, आहियत्ति, आख्यातवन्तः / अथ तेषां भूतानां विनाशेन देहिनो जीवस्य विनाशो १.४वक्तव्यता। भवति, तदव्यतिरिक्तत्वादेवेत्येवं लोकायतमत प्रतिपादनपरत्वात्परसमय वक्तव्यतेयमुच्यते। आख्यायत इत्यादिपदानां तु विभाग: पूर्वोक्तानुसारेण स्वबुद्ध्या कार्यः। सेयं परसमयवक्तव्यता ॥५२३॥स्वसमय परसमयवक्तव्यता पुनर्यत्र स्वसमयः परसमयश्चाख्यायते यथा, आगारमावसंता वा,आरण्णा वावि पव्वया। इदं दरिसणमावन्ना, सव्वदुक्खा विमुच्ची // 1 // (सूत्रकृ० 1/1/19) त्यादि। आगारंगृहं तत्रावसन्तो गृहस्था इत्यर्थः। आरण्या वा तापसादयः, पव्वइयत्ति प्रव्रजिताश्च शाक्यादयः, इदमस्मदीयं मतमापन्ना आश्रिताः सर्वदुःखेभ्यो विमुच्यन्त इत्येवं यदा सावयादयः प्रतिपादयन्ति तदेय परसमयवक्तव्यता। नयापेक्षया यदा तुजैनास्तदा स्वसमयवक्तव्यता, ततश्चासौस्वसमय परसमयवक्तव्यतोच्यते॥५२४॥अथ वक्तव्यतामेव नयैर्विचारयन्नाह, इयोणी नओ, इत्यादि / अत्र नैगमव्यवहारौ त्रिविधामपि वक्तव्यतामिच्छतः, नैगमस्यानेकगमत्वाव्यवहारस्य तु लोकव्यवहारपरत्वाल्लोके च सर्वप्रकाराणां रूढत्वादिति भावः / ऋजुसूत्रस्तुविशुद्धतरत्वादाद्यामेव द्विविधांवक्तव्यतामिच्छति, स्व परसमयवक्तव्यतानभ्युपगमे युक्तिमाह- तत्थ णं जा सेत्यादि। तृतीयवक्तव्यताभेदे याऽसौ स्वसमयवक्तव्यता गीयते सा स्वसमयं / प्रविष्टा, प्रथमेवक्तव्यताभेदेऽन्तर्भूतेत्यर्थः / या तुपरसमयवक्तव्यतासापरसमयं प्रविष्टा, द्वितीये वक्तव्यताभेदेऽन्तर्भावितेत्यर्थः। ततश्चोभयरूपवक्तव्यतायाः प्रस्तुतनयमतेऽसत्त्वाद्विविधैव वक्तव्यता न त्रिविधेति / सङ्गहस्तु सामान्यवादिनैगमान्तर्गतत्वेन विवक्षितत्वात्सूत्रगतिवैचित्र्याद्वा न पृथगुक्त इति / त्रयःशब्दनया:,शब्द समभिरूद्वैवंभूता:शुद्धतमत्वादेकां स्वसमयवक्त 0 तेभ्य' इति / (c) मं। 0 विद्यादगारमागारमिति द्विरूपकोशात् / 0 तदेवं (य)। ७व्यवहार (पर) स्य। ॐ कोऽर्थः?' इत्यधिकम्। भावः' इत्यधिकम्।। जापानाच // 382 //
SR No.600442
Book TitleAnuyogdwar Sutram
Original Sutra AuthorN/A
AuthorDivyakirtivijay
PublisherShripalnagar Jain Shwetambar Murtipujak Derasar Trust
Publication Year2012
Total Pages450
LanguageSanskrit
ClassificationManuscript & agam_anuyogdwar
File Size31 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy