________________ श्रीअनुयोगद्वारंमलधारि श्रीहेमचन्द्रसूरि वृत्तियुतम्। // 379 // शा० उपक्रमः। 1.3 प्रमाणम्। सूत्रम् 1.3.4 भावप्रमाणम्। |1.3.4.1 गुण प्र०। 1.3.4.1.3 नन्तानन्तकात्परतः सर्वाण्यप्यजघन्योत्कृष्टान्येवानन्तका नन्तकस्य स्थानानि भवन्ति, उत्कृष्टं त्वनन्तानन्तकं नास्त्येवेत्यभि- [1] उपक्रमः। प्रायः / अन्ये त्वाचार्याः प्रतिपादयन्ति, जघन्यमनन्तानन्तकं वारत्रयं पूर्ववद्वय॑ते, ततश्चैते षडनन्तकप्रक्षेपाः प्रक्षिप्यन्ते। तद्यथा, सिद्धा 1 निओयजीवा 2 वणस्सई 3 काल 4 पोग्गला 5 चेव। सव्वमलोगागासं 6 छप्पेतेऽणंतपक्खेवा // 1 // अयमर्थः, द्रव्यादिचतुर्भेदाः सर्वे सिद्धाः 1, सर्वेसूक्ष्मबादरनिगोदजीवा: 2, प्रत्येकानन्ता: सर्वेवनस्पतिजन्तवः३, सर्वोऽप्यतीतानागतवर्तमानकालसमय 515-520 राशि: 4, सर्वपुद्गलद्रव्यसमूहः५, सर्वोऽलोकाकाशप्रदेशराशिः 6, एते च प्रत्येकमनन्तस्वरूपाः षट् प्रक्षेपाः। एतैश्च प्रक्षिप्तैर्यो राशिर्जायते स पुनरपि वारत्रयं पूर्ववद्वय॑ते, तथाऽप्युत्कृष्टमनन्तानन्तकं न भवति / ततश्च केवलज्ञानकेवलदर्शनपर्यायाः प्रक्षिप्यन्ते, एवं च सत्युत्कृष्टमनन्तानन्तकं संपद्यते, सर्वस्यैव वस्तुजातस्य सङ्ग्रहीतत्वात् / अतः परं वस्तुसत्त्वस्यैव सङ्ख्याविषयस्याभावादिति भावः / सूत्राभिप्रायतस्त्वित्थमप्यनन्तानन्तकमुत्कृष्टं न प्राप्यते, अजघन्योत्कृष्टस्थानानामेव तत्र प्रति-8 सङ्घयापादितत्वादिति / तत्त्वं तु केवलिनो विदन्तीति / सूत्रे च यत्र क्वचिदनन्तानन्तकं गृह्यते तत्र सर्वत्राजघन्योत्कृष्टं द्रष्टव्यम्। तदेवं प्ररूपितमनन्तानन्तकम्, तत्प्ररूपणे च समाप्ता गणनसङ्ख्या // 519 // अथ भावसङ्ख्या निरूपणार्थमाह- से किं तं भावसंखे त्यादि / इह सङ्ख्या (खा)शब्देन प्रागुक्तयुक्त्या शङ्खाः परिगृह्यन्तेऽत एव नामस्थापनादिबहुविचारविषयत्वा अष्टविधानन्तत्सङ्ख्याप्रमाणं गुणप्रमाणात्पृथगुक्तम्, अन्यथा सङ्ख्याया अपि गुणत्वाद्गुणप्रमाण एवान्तर्भाव: स्यादिति / तत्र भावशङ्खस्वरूपं दर्शयितुमाह-जे इमे इत्यादि। ये इमे प्रज्ञापकप्रत्यक्षा लोकप्रसिद्धा वा जीवाः, आयुः, प्राणादिमन्तः संखगतिनामगोयाई ति, शङ्खगतिनामगोत्रशब्देनेह शङ्खप्रायोग्यं तिर्यग्गतिनाम गृह्यते / तस्य चोपलक्षणार्थत्वाद्विन्द्रियजात्यौदारिकशरीराङ्गो (r) गो। 0पु0 भावः' इत्यधिकम्। 0 'कुत्रापि' इत्यधिकम्। O...माणाद्गुणप्रमाणं...। 0 शङ्खगतिनामगोत्राणी'ति / भावप्रमाणम्। अष्टानां मध्ये 1.3.4.1.3.7 गणनासधा भा०प्र० कम्। भावशङ्खः। // 379 //